Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वस्तुपाल! तव पर्वशर्वरीगवितेन्दुकरजिस्वरं यशः।
क्षीरनीरनिधिवाससः क्षितेरुत्तरीयतुलनां विगाहते ॥२॥ एवं भावं सम्पूर्य देवोत्तमं श्रीनेमिमापृच्छय सर्वासां तीर्थचिन्ताकृतां निर्माल्यपदं दत्वा पर्वतादुदतारीत् , न सतां हृदयात् नापि महत्त्वात् । अथ खङ्गारदुर्गाद्रिदेवपत्तनादिषु देवान् ववन्दे । तेजपालं खङ्गारदुर्गे स्थापयित्वा स्वयं ससङ्घो वस्तुपाल: श्रीधवलकके श्रीवीरधवलमयमत् । स्वागतप्रश्नः स्वामिना कृतः। आरम्भसिद्धिप्रश्नश्च । ततो मन्त्र्याहकामं खामिप्रसादेन प्रेष्याः कर्मसु कर्मठाः । तद् धैभवं बृहनोः कचिदृष्मा जोति यत् ॥ १॥
. राणकेन ससङ्घः सचिवः स्वसदने भोजितः परिधापितः स्तुतश्च । तेजःपालोऽपि खङ्गारदुर्गस्थो भूमि विलोक्य तेजलपुरममण्डयत् , सत्रारामपुरप्रपाजिनगृहादिरम्यं । प्राकारश्च तेजलपुरं परितः कारितः पापाणबद्धस्तुङ्गः। अथ वस्तुपाल: श्रीवीरधवलपार्श्वे सेवां विधत्ते । देशः सुस्थः धर्मों वर्तते । एवं सत्येकदा दिल्लीनगरादेत्य चरपुरुषैः श्रीवस्तुपालो विज्ञप्त:-“देव! दिल्लीतः श्रीमोजदीनसुरत्राणस्य सैन्यं पश्चिमां दिशमुद्दिश्य मलितम् । चत्वारि प्रयाणानि व्यूढं । तस्मात्सावधानः स्थेयम् । मन्ये अर्बुदमध्ये भूत्वा गुर्जरधरां प्रवेष्टा ।” मन्त्रिणा सत्कृत्य ते चरा राणपाव नीताः कथापितः स प्रपन्धः । ततो राणकेनाभाणि
For Private And Personal

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283