Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एतावता को भावः धरणबन्धनयातनाः कस्यापि न करोति कृपाम्बोधिः। ३६ वेलातटेषु धनर्द्धिः महालाभाः। पूगहट्टिका १ निजसदनं २ श्रीहे नमूरिपौषधशाला ३ माषपिष्टकइष्टकचिताऽकारि । अमारिकारकश्रीकुमारपालदेवसमये महाव्यापस्तस्य । एकदा श्रीहेममूरिभिः साधर्मिकवात्सल्यं महाफलमिति राज्ञे व्याख्यातम् ।। राज्ञा आभड उक्त:-"त्रुटितधनं श्रावककुलं दीनारसहस्रं दत्त्वोद्धार्यम् । वर्षान्त लेख्यकं वयमवधाराप्याः।" आभडेन वर्षान्त राज्ञे लेख्यकं दर्शितम् । एका कोटिरायाता । राजा यावद्दापयति । तावदाभडेन विज्ञप्तम्"देव ! भूभुजां कोशो द्विधा स्थावरो जङ्गमश्च । तत्र स्थावरो हेमादिभाण्डागारः । जङ्गमो वणिग्जनः । वणिग्धनमपि स्वामिधन मेवेति ।" राजोवाच-“ एवं मावादीः। लोभपिशाचो मां छलयति । तावन्मानं तत्कालमेवानाय्य दापितम् । राजा तुष्टः । एवं व्रजति काले राजा कुमारपालदेवः श्रीहेमश्च वृद्धी जाती। श्रीहेमसरिगच्छे विरोधः । रामचन्द्रगुणचन्द्रादिवृन्दमेकतः । एकतो बालचन्द्रः । तस्य च बालचन्द्रस्य राजभ्रातृजेन अजयपालेन सह मैत्री। एकदा प्रस्तावे राज्ञो गुरूणामाभडस्य च रात्री मन्त्रारम्भः। राजा पृच्छनि-"भगवन्नहमपुत्रः। कं स्थपदे रोपयामि । गुरवो अवन्ति-"प्रतापमल्लदौहित्रं राजानं कुरु धर्मस्थैर्याय अजयपालात्तु त्वत्स्थापितधर्मक्षयो भावि । अत्रान्तरे आभडः प्राह-“भगवन् ! यादशस्तादशः आत्मीयो भव्यः । पुनः श्रीहेमः अजयपालं राजानं मा कृथाः सर्वथैव । एवं मन्त्रं कृत्वोत्थितात्रयः। स
For Private And Personal

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283