Book Title: Avidyavichar
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

View full book text
Previous | Next

Page 142
________________ પ્રાગભાવખંડન १२७ ... . उत्पन्नघटस्य च पुनरुत्पत्त्यापादनमसङ्गतम् दण्डादेरुत्पन्नघटाहेतुत्वात् । अद्वैतदीपिका, प्र. प., पृ. १३५ दण्डादेरुत्पन्नघटं प्रति पूर्वक्षणसत्त्वनियमाभावात् कारणत्वमेप नास्ति, तथा चाकारणात् कार्यापादनमसङ्गतम् । अद्वैतदीपिकाविवरण, प्र. प., पृ. १३५ ३०. ३१. न च तत्साम्प्रयुत्तरक्षणस्य तदुत्पत्तिकालत्वनियमात् घटोत्पत्त्यनन्तरकालीनोऽपि घट उत्पद्येतेति . वाच्यम् । अद्वैतदीपिका, प्र. प., पृ. १३५ ३२. उत्पन्नस्यैव प्रतिबन्धकत्वात् । न चैवं प्रागभावस्य कारणत्वप्रसङ्गः । अद्वैतदीपिका, प्र. प., पृ. १३५ तर्हि प्रागभावस्य प्रतिबन्धकाभावतया कारणत्वसिद्धिः । अद्वैतदीपिकाविवरण, प्र. प., पृ. १३५ ३३. उत्तेजकाभावविशिष्टस्य हि प्रतिबन्धकस्याभाव: कार्योपयोगी प्रागभावश्च न तद्विशिष्टप्रतियोगिक . इति न तस्य प्रतिबन्धकाभावतयापि कारणत्वमिति । अद्वैतदीपिकाविवरण, प्र. प., पृ. १३५ ३४. . सामग्रीकालीनकार्यानुत्पादप्रयोजकत्वं हि प्रतिबन्धकत्वम्, ततो न तदभावः कारणम् । अन्यथा अनुत्पादस्य सामग्रीकालीनत्वायोगात् । अद्वैतदीपिका, प्र. प., पृ. १३५ ... ... इदं च प्रतिबन्धकाभावस्य कारणत्वेऽनुपपन्नं तदुद्घटितसाम्ग्र्यां सत्यां कार्यानुत्पादायोगेन तत्प्रयोजकत्वस्याप्यनुपपत्तेरिति । अद्वैतदीपिकाविवरण, प्र. प., पृ. १३५ ३५..... न चैवमन्वयव्यतिरेकविरोधः । तयोस्तद्गतानुकूलतामात्रविषयत्वात् । अनुकूलत्वं च कारणत्वादन्यदेव । अवच्छेदकस्यापि तत्सत्त्वात् । उक्तबाधकेन कारणत्वानुपपत्तेः । अद्वैतदीपिका, प्र. प., पृ. १३५ ३६. पूर्वक्षणः कारणं तद्विरहात् वोत्पन्नस्य न पुनरुत्पादः । अद्वैतदीपिका, प्र. प., पृ. १४३ ३७. अद्वैतरत्नरक्षण, निर्णयसागर सं., पृ. २० ३८. जनकत्वं च स्वरूपसम्बन्धविशेषः, न प्रागभावघटितः, प्रागभावस्याजनकत्वापत्तेः, अन्यथाऽऽत्माश्रयात् । अतः प्रागभावमङ्गीकुर्वतोऽपि तत्प्रत्यक्षत्वं दुर्लभम्। तमनङ्गीकुर्वतस्तु न कापि हानिः । अद्वैतसिद्धि, पृ. ५५२-५३ ३९. इहेदानीं घटो नास्तीति प्रतीतिस्तु सामान्यधर्मावच्छिन्नप्रतियोगिताकतत्कालावच्छिन्न. यावद्विशेषाभावविषया, समयविशेषस्याप्यभावावच्छेदकत्वात् । अद्वैतसिद्धि, पृ. ५५३ ४०. समयविशेषस्याप्यभावावच्छेदकत्वात् । अन्यथा 'आद्यक्षणे घटो नीरूपः' इत्यादिप्रतीतिर्न स्यात् । अद्वैतसिद्धि, पृ. ५५३ ४१. अद्वैतसिद्धि, पृ. ५५३ ४२. अथ अस्मिन् पक्षे सामान्याभावो न सिद्ध्येदिति चेत् । अद्वैतसिद्धि, पृ. ५५३ ४३. प्रागभावाभ्युपगमेऽपि तुल्यमेतत् । सामान्याभावप्रागभावयोः सुन्दोपसुन्दयोरिव परस्परपराहतत्वात् । तथाहि प्रागभावसिद्धौ विशेषाभावस्यापि सामान्यावच्छिन्नप्रतियोगिताकत्वात् न तावन्मात्रप्रमाणकसामान्याभावसिद्धिः, सामान्याभावसिद्धौ च विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वाभावात् कादाचित्काभावस्य च सामान्याभावत्वायोगात् न सामान्यधर्मावच्छिन्नप्रतियोगिताकविशेषप्रतीतिमात्रशरणप्रागभावसिद्धि:, इति न तदुभयमपि विपश्चितां चेतसि चमत्कारमावहति । अद्वैतसिद्धि, पृ. ५५३

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234