Book Title: Avidyavichar
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 193
________________ શાંકર વેદાન્તમાં અવિદ્યાવિયાર तमोगुणस्यैव परिणाम:, 'सत्त्वात् संजायते ज्ञानम्' इति स्मृतेः । अत एव सुषुप्तिनिरुक्तोपपादने भामत्यामीक्षत्यधिकरणे वृत्त्यन्तराभावकारणतमोगुणावलम्बना वृत्तिरित्युक्तम् । लघुचन्द्रिका, पृ. ५५८ ४८. लघुचन्द्रिका, पृ. २३३-२३४ ४८. . काचिद् वृत्तिः सुषुप्तिरित्यभिप्रेत्य तदुपरक्तचैतन्यस्य तन्नाशेनैव नाशात् तत्कालीनाज्ञानानुभवजनितसंस्कारवशेन ‘न किञ्चिदवेदिषम्' इति स्मरणमभ्युपेतमिति । अद्वैतसिद्धि, पृ. ५५९. . विनश्यदेव हि ज्ञानं संस्कारं जनयति । अद्वैतसिद्धि, पृ. ५५७ १७८ ५०. ५१. मात्रपदं ज्ञानविरोधादिधर्मान्तरस्याज्ञाने विशेषणत्वनिरासाय । एतेनं गुणत्रयाज्ञानविषयकस्य पूर्वमुक्तत्वात् विरुद्धमिदं तमोगुणमात्रविषयकत्ववचनमिति परास्तम् । मात्रशब्दस्य गुणान्तराव्यवच्छेदकत्वात् । लघुचन्द्रिका, पृ. ५८८ ५२. वार्तिकविवरणयोरप्यविरोधः । अत एवोक्तं वार्तिककारैरुषस्तिब्राह्मणे " न चेदनुभवव्याप्तिः सुषुप्तस्याभ्युपेयते । नावेदिषं सुषुप्तोऽहमिति धीः किंबलाद् भवेत् ॥” इत्यादि [बृहदारण्यक भाष्यवार्तिक, ३.४.१०३] | अद्वैतसिद्धि, पृ. ५५९ ५३. एवं च साक्ष्यज्ञानसुखाकारास्तिस्रोऽविद्यावृत्तयः, सुषुप्त्याख्यैकैव वा वृत्तिरित्यन्यदेतत् । निर्विकल्पकस्यापि स्मरणजनकत्वम् । अद्वैतसिद्धि, पृ. ५५९. ५४. आकाशादिपदात् शुद्धाकाशशक्तत्वेन ज्ञानात् शुद्धाकाशस्मृतिर्मणिकारादिभिरुक्तेति निर्विकल्पकानुभवस्य सविकल्पकानुभवस्येव स्मृतिजनकत्वे बाधकाभाव इति भावः । लघुचन्द्रिका, पृ. ५५९ ५. सिद्धान्तबिन्दु, राजेन्द्रनाथ घोष सं., पृ. ४१६-४२ ५५. अहङ्कारोपरागकालीनत्वाभावेन तत्तानुल्लेख इत्यादि सर्वमुपपादितमस्माभिः सिद्धान्तबिन्दौ । तस्मात् सौषुप्तानुभवोऽपि भावरूपाज्ञानविषय इति सिद्धम् । अद्वैतसिद्धि, पृ. ५५९ ... सप्रकारकज्ञानं प्रति अहङ्कारस्य हेतुत्वात् तदभावेन सौषुप्तज्ञाने तद्देशकालासम्बन्धरूपतत्ताप्रकारकत्वाभावात् तज्जन्यस्मृतेरपि स इति भावः । लघुचन्द्रिका, पृ. ५५९ ५७. सिद्धान्तबिन्दु, राजेन्द्रनाथ घोष सं., पृ. २२५-२२६, २३३-२३४

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234