Book Title: Avidyavichar
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala
________________
સિદ્ધાન્તબિંદુમાં નિરૂપિત સુષુપ્તિ
२०३
तदभावाच्च तादृशज्ञानाभाव इत्यनुमानसंभव इति वाच्यम् । ज्ञानस्य स्मृतिजनकत्वानियमात् । तस्माल्लिङ्गासम्भवः । न्यायरत्नावली, पृ. ४२३
५५." ....आश्रयासिद्धिश्च तत्कालस्यानुपस्थितत्वात् . । न्यायरत्नावली, पृ. ४२३ ५५. अहङ्कारस्तूत्थानसमय एवानुभूयते । सुषुप्तौ लीनत्वेन तस्याननुभूतत्वात् स्मरणानुपपत्तेः । सिद्धान्तबिन्दु, पृ. ४२३- ४२४ । न्यायरत्नावली, पृ ४२३
५७. सिद्धान्तबिन्दु, पृ. ४२४ । न्यायरत्नावली, पृ. ४२३- ४२४
५८. मुखप्रतिबिम्बाश्रये दर्पणे जपाकुसुमलौहित्याध्यासेन रक्तं मुखमिति प्रतीतिवदहङ्काराश्रया साक्षिंचैतन्यस्य स्मरणाश्रयत्वादहमस्वाप्समिति सामानाधिकरण्यप्रतीतिः, न पुनरहं सुखीतिवदाश्रयतया । स्मृतिसंशयविपर्यायांणां साक्षिचैतन्याश्रयत्वनियमादहङ्कारस्य च प्रमाणजन्यज्ञानाश्रयत्वनियमात् प्रमात्वेनैव तत्कार्यतावच्छेदात् अप्रमात्वावच्छेदेन च अविद्याया एव कारणंत्वात् । सिद्धान्तबिन्दु, पृ. ४२४ - ४२५ । न्यायरत्नावली, पृ. ४२४-४२५ ५८. तत्र स्मृतिव्यावृत्तं प्रमात्वम् अनधिगताबाधितार्थविषयज्ञानत्वम् । वेदान्तपरिभाषा, पृ. १९-२० सिद्धान्तंबिन्दु, पृ. ४२४-४२५
५०.
११ . अनाप्तवाक्यादिजन्यपरोक्षविभ्रमोऽप्यविद्यावृत्तिरेवेत्यभ्युपगमो वेदान्तविदाम् । सिद्धान्तबिन्दु, पृ. ४२५-४२६
I
१२. सुषुप्त्यवस्थायामस्त्यानन्दभोगस्तद्भोक्ता च सुषुप्त्यभिमानी प्राज्ञ इत्युच्यते । प्रकर्षेणाज्ञत्वात् तदानीं विशेषावच्छेदाभावेन प्रकष्टज्ञत्वाद् वा । सिद्धान्तबिन्दु, पृ. ४३२
....मूलाज्ञानं सर्वदास्ति । अवस्थाऽज्ञानमपि सुषुप्ताविति प्रकर्षः । विशेषावच्छेदाभावेन वृत्तित्रयविषयान्यविषयविशेषविषयकत्वाभावेन । सौषुप्तसाक्षिण इति शेषः । विशेषविषयकत्वस्य दुःखप्रयोजकत्वेन तदभावो ज्ञानस्य प्रकर्षः । न्यायरत्नावली, पृ. ४३२
१.३. . ..तदा चान्तःकरणस्य लयेऽपि तत्संस्कारेणावच्छेदान्न जीवाभावप्रसङ्गः । सिद्धान्तबिन्दु, पृ. ४३२
अवच्छेदादिति । मनोऽवच्छिन्नचैतन्यमेव जीव इति पक्षे इति शेषः । न्यायरत्नावली, पृ. ४३२
१४. न वा सार्वज्ञ्यापत्तिः । सिद्धान्तबिन्दुः, पृ. ४३२
... मनोऽवच्छिन्नस्य जीवत्वे तु मनउच्छेदेन जीवत्वाभावः स्यात्, ईशाभेदसम्पत्त्या सार्वज्ञ्यापत्तिश्च स्यात् । जीवस्याभावेन तं प्रत्यविद्याऽऽवृणोतीत्यस्य वक्तुमशक्यत्वादिति भावः । न्यायरत्नावली, पृ. ४३२
१५. अविद्योपहितचैतन्यस्य जीवत्वपक्षे नोक्तप्रसङ्गः । न्यायरत्नावली, पृ. ४३२
५५:
स्मृतिसंशयविपर्यायाणां साक्षिचैतन्याश्रयत्वनियमात् । सिद्धान्तबिन्दु, पृ. ४२४-४२५ १७. अत्रेदं बोध्यम् । मूले साक्षिमात्राश्रितत्वरूपं साक्ष्याश्रितत्वं स्मरणादेर्यदुक्तं तदविद्यागतचिदाभासः साक्षीति वार्तिकमवलम्ब्यैव । ... . बिम्बप्रतिबिम्बानुगतशुद्धचित् साक्षीति मते तु स्मृत्यादिकार्यं न साक्षिमात्राश्रितम् किन्तु अविद्याविशिष्टचिदाभासाश्रितमपि । न्यायरत्नावली, पृ. ४३४
Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234