________________
પ્રાગભાવખંડન
१२७
...
. उत्पन्नघटस्य च पुनरुत्पत्त्यापादनमसङ्गतम् दण्डादेरुत्पन्नघटाहेतुत्वात् । अद्वैतदीपिका, प्र. प., पृ. १३५
दण्डादेरुत्पन्नघटं प्रति पूर्वक्षणसत्त्वनियमाभावात् कारणत्वमेप नास्ति, तथा चाकारणात् कार्यापादनमसङ्गतम् । अद्वैतदीपिकाविवरण, प्र. प., पृ. १३५
३०.
३१. न च तत्साम्प्रयुत्तरक्षणस्य तदुत्पत्तिकालत्वनियमात् घटोत्पत्त्यनन्तरकालीनोऽपि घट उत्पद्येतेति . वाच्यम् । अद्वैतदीपिका, प्र. प., पृ. १३५
३२. उत्पन्नस्यैव प्रतिबन्धकत्वात् । न चैवं प्रागभावस्य कारणत्वप्रसङ्गः । अद्वैतदीपिका, प्र. प., पृ. १३५
तर्हि प्रागभावस्य प्रतिबन्धकाभावतया कारणत्वसिद्धिः । अद्वैतदीपिकाविवरण, प्र. प., पृ. १३५ ३३. उत्तेजकाभावविशिष्टस्य हि प्रतिबन्धकस्याभाव: कार्योपयोगी प्रागभावश्च न तद्विशिष्टप्रतियोगिक . इति न तस्य प्रतिबन्धकाभावतयापि कारणत्वमिति । अद्वैतदीपिकाविवरण, प्र. प., पृ. १३५ ३४. . सामग्रीकालीनकार्यानुत्पादप्रयोजकत्वं हि प्रतिबन्धकत्वम्, ततो न तदभावः कारणम् । अन्यथा अनुत्पादस्य सामग्रीकालीनत्वायोगात् । अद्वैतदीपिका, प्र. प., पृ. १३५
...
... इदं च प्रतिबन्धकाभावस्य कारणत्वेऽनुपपन्नं तदुद्घटितसाम्ग्र्यां सत्यां कार्यानुत्पादायोगेन तत्प्रयोजकत्वस्याप्यनुपपत्तेरिति । अद्वैतदीपिकाविवरण, प्र. प., पृ. १३५ ३५..... न चैवमन्वयव्यतिरेकविरोधः । तयोस्तद्गतानुकूलतामात्रविषयत्वात् । अनुकूलत्वं च कारणत्वादन्यदेव । अवच्छेदकस्यापि तत्सत्त्वात् । उक्तबाधकेन कारणत्वानुपपत्तेः । अद्वैतदीपिका, प्र. प., पृ. १३५
३६. पूर्वक्षणः कारणं तद्विरहात् वोत्पन्नस्य न पुनरुत्पादः । अद्वैतदीपिका, प्र. प., पृ. १४३ ३७. अद्वैतरत्नरक्षण, निर्णयसागर सं., पृ. २०
३८. जनकत्वं च स्वरूपसम्बन्धविशेषः, न प्रागभावघटितः, प्रागभावस्याजनकत्वापत्तेः, अन्यथाऽऽत्माश्रयात् । अतः प्रागभावमङ्गीकुर्वतोऽपि तत्प्रत्यक्षत्वं दुर्लभम्। तमनङ्गीकुर्वतस्तु न कापि हानिः । अद्वैतसिद्धि, पृ. ५५२-५३
३९. इहेदानीं घटो नास्तीति प्रतीतिस्तु सामान्यधर्मावच्छिन्नप्रतियोगिताकतत्कालावच्छिन्न. यावद्विशेषाभावविषया, समयविशेषस्याप्यभावावच्छेदकत्वात् । अद्वैतसिद्धि, पृ. ५५३ ४०. समयविशेषस्याप्यभावावच्छेदकत्वात् । अन्यथा 'आद्यक्षणे घटो नीरूपः' इत्यादिप्रतीतिर्न स्यात् । अद्वैतसिद्धि, पृ. ५५३
४१. अद्वैतसिद्धि, पृ. ५५३
४२. अथ अस्मिन् पक्षे सामान्याभावो न सिद्ध्येदिति चेत् । अद्वैतसिद्धि, पृ. ५५३
४३. प्रागभावाभ्युपगमेऽपि तुल्यमेतत् । सामान्याभावप्रागभावयोः सुन्दोपसुन्दयोरिव परस्परपराहतत्वात् । तथाहि प्रागभावसिद्धौ विशेषाभावस्यापि सामान्यावच्छिन्नप्रतियोगिताकत्वात् न तावन्मात्रप्रमाणकसामान्याभावसिद्धिः, सामान्याभावसिद्धौ च विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वाभावात् कादाचित्काभावस्य च सामान्याभावत्वायोगात् न सामान्यधर्मावच्छिन्नप्रतियोगिताकविशेषप्रतीतिमात्रशरणप्रागभावसिद्धि:, इति न तदुभयमपि विपश्चितां चेतसि चमत्कारमावहति । अद्वैतसिद्धि, पृ. ५५३