SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ૧૨૬ શાંકર વેઠાન્તમાં અવિદ્યાવિયાર १८. ... पाण्डित्यविशिष्टदेवदत्तस्य केवलदेवदत्तात् अन्यत्वेन तत्पूर्वं तत्प्रागभावोऽस् । अद्वैतदीपिकाविवरण, द्वि.प., पृ. १९६ . विशिष्टस्यानन्यत्वाच्च । अद्वैतदीपिका, द्वि. प., पृ. ११६ ... . तत् किं नित्यमनित्यं वा ? नाद्यः, विशेषणाद्यभावेऽपि तत्प्रसङ्गात्। न द्वितीयः तदुपादानानिरूपणात्, न च विशेषणादिकमेव तदुपादानमिति वाच्यम् गुणादीनामपि तदापत्तेः । अद्वैतदीपिकाविवरण, द्वि. प., पृ. १९६ २०. विशिष्टस्यापि विशेषणादिभेदविशिष्टत्वेन तदनवस्थाप्रसङ्गाच्चेति भावः ।... पण्डितो भविष्यतीति बुद्धिशब्दप्रयोगयोर्विशेषणस्यैव भविष्यत्ताविषयो न विशेष्यस्य ... । अद्वैतदीपिकाविवरण,.. द्वि. प., पृ. ११६ १९. न च तत्र पाण्डित्यमात्रस्यैव भविष्यत्ता न तु देवदत्तस्येति वाच्यम् । पण्डितदेवदत्तस्यैव भविष्यत्तान्वयानुभवात् । शब्दप्रयोगेऽपि देवदत्त इति प्रथमया सप्तम्यर्थो लक्षणीयः पण्डितशब्दस्य च धर्मपरत्वं लिङ्गव्यत्ययश्चेति बहुकल्पनाप्रसङ्गात् । अद्वैतदीपिका, .प., पृ. १.१६ २२. देवदत्तस्थितिकाले देवदत्ताभावाभावात् त्वन्मतेऽपि कथं तदा विशिष्टासत्त्वम् ? अद्वैतदीपिकाविवरण, द्वि. प., पृ. १९६ २३. पण्डितत्वविशिष्टदेवदत्तात्यन्ताभावश्च प्रागप्यस्तीति न विद्यमानस्य प्रागसत्त्वविरोधः । अद्वैतदीपिका, द्वि.प., पृ. १९६ विशेषणाभावप्रयुक्तविशिष्टाभावस्य तदापि सत्त्वात् इत्यर्थः । अद्वैतदीपिकाविवरण, द्वि.प., पृ. २१. ११६-११७ २४. ननु प्रागभावाभावे कालस्य प्राक्त्वमेवानुपपन्नम् प्रागभावावच्छिन्नकालस्यैव प्राक्कालत्वात् । अद्वैतदीपिकाविवरण, द्वि.प., पृ. ११७ २५. प्राक्त्वं च कालस्य प्रतियोगितद्ध्वंसानाधारत्वमिति न तदर्थमपि प्रागभावः । अद्वैतदीपिका, द्वि. प., पृ. ११७ २६. न च कार्यत्वमेव प्रागभावं विना न निर्वहतीति वाच्यम् । अद्वैतदीपिका, द्वि.प., पृ. ११७ घटादीनां प्रागभावप्रतियोगित्वाभावे आत्मंवत् कार्यत्वमेव न स्यात् । अद्वैतदीपिकाविवरण, द्वि.प., पृ.११७ २७. घटादीनां स्वरूपविशेषेण प्रागभावप्रतियोगित्ववत् कार्यत्वस्यापि साध्यत्वलक्षणस्य तत एवोपपत्तेः । असत्कार्यवादिनः कार्यासत्त्वमात्रस्यैव तत्रापेक्षितत्वात् । एतेन प्रागभावाप्रतियोगिनः कार्यत्वे आत्मनोऽपि कार्यत्वापत्तिरिति प्रत्युक्तम् । येन स्वरूपविशेषेणात्मा न प्रागभावप्रतियोगी तेनैवाकार्यमिति वक्तुं शक्यत्वात् । अद्वैतदीपिका, द्वि. प., पृ. ११७-११८ २८. न चैवमुत्पन्नस्य पुनरुत्पत्तिप्रसङ्गः । अद्वैतदीपिका, द्वि. प., पृ. १९८ ... तद्धेतोर्दण्डादेः सत्त्वात् । अद्वैतदीपिका, प्र. प., पृ. १३४. प्रागभावस्याकारणत्वे प्रतियोग्युत्पत्तिसमये सामग्रीसत्त्वेनोत्पन्नस्य पुनरुत्पत्तिः । अद्वैतदीपिकाविवरण, प्र. प., पृ. १३४. २९. प्रतियोग्युत्पत्तिकाले प्रागभावस्यापि सत्त्वात् पुनरुत्पत्तिप्रसङ्गस्य तन्मतेऽपि समत्वात् । अद्वैतदीपिकाविवरण, प्र. प., पृ. १३४
SR No.005850
Book TitleAvidyavichar
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherSanskrit Sanskriti Granthmala
Publication Year2001
Total Pages234
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy