________________
પ્રાગભાવખંડન
૧૨૫ ७. ... भूतले पटो नास्ति, तन्तुषु पटो नास्ति इति बुद्ध्योः पटप्रतियोगिकाभावविषयत्वांशे __ वैलक्षण्याभावादुभयत्रापि पटत्वावच्छिन्नप्रतियोगिकाभाव एव विषयः। अद्वैतदीपिकाविवरण, '. द्वि. प., पृ. ११४ ८. ... न, भूतले घटो नास्तीति बुद्धेरिव कालभेदेनाधिकरणसंसर्यत्यन्ताभावस्यैव तद्विषयत्वात् ।
अन्यथा वायौ रूपं नास्तीति प्रत्ययोऽपि कथं तद्विषयाभावविषय एवेति सामान्याभावस्यैवासिद्धिप्रसङ्गात् । अद्वैतदीपिका, द्वि. प., पृ. ११४-११५ ९. ... ननु वायौ रूपं नास्तीति बुद्ध्या न सामान्याभावसिद्धिः किन्तु पृथिव्यादिरूपाभाववत्तया निश्चितेऽपि वायौ रूपमस्ति न वेति संशयविषयतया निश्चिताभावातिरिक्तरूपाभावसिद्धिरिति
चेत्... । अद्वैतदीपिकाविवरण, द्वि. प., पृ. ११५ १०. ...न, तस्य निश्चिताभावेष्वेव वायुवृत्तिधर्मरूपत्वसंशयाहितत्वोपपत्तेः । वायौ प्रत्येक
प्रतियोगिकनिखिलरूपाभावाः सन्तीति निश्चयदशायां तत्संशयाभावेन तत्संशयस्योक्तसंशया
हितत्वस्यावश्यकत्वात् । अद्वैतदीपिकाविवरण, द्वि. प., पृ. ११५ ११. ... अत एवैतावत्कालं तन्तुषु पटो नासीदिति बुद्धिरपि न [प्रागभावे] प्रमाणम् । एतावत्कालं भूतले
घटो नासीदिति बुद्धेरिवात्यन्ताभावविषयत्वात् । अद्वैतदीपिका, द्वि. प., पृ. ११५ १२. ... नापि 'इदं मा भूत्' इति कामना प्रागभावविषया। अत्यन्ताभावस्यासाध्यस्य तदयोगात्,
ध्वंसस्य च तदानीमनिष्पन्नप्रतियोगिकस्याकाम्यत्वात् । प्रागभावपरिपालनस्य च साध्यत्वात् इति
वाच्यम् । अद्वैतदीपिका, द्वि. प., पृ. ११५ १३. ... अनादिप्रागभावस्य कालान्तरे सम्बन्धस्येवात्यन्ताभावस्यापि कालान्तरे सम्बन्धस्य कामना- सम्भवात् । तस्य च प्रागंभावसम्बन्धस्येव प्रतियोगिजनकविघटनाधीनत्वात् तदर्थं यलाविरोधात् ।
अद्वैतदीपिका, द्वि. प., पृ. ११५ . १४.. ... अथ तन्तुषु पटो भविष्यति' इति वुद्धिः प्रागभावविषया । न च भविष्यतीति बुद्धिः पटादेः
भविष्यत्कालसम्बन्धविषयेति वाच्यम् । अद्वैतदीपिका, द्वि. प., पृ. ११५ १५.... विद्यमानप्रागभावप्रतियोगित्वस्यैव भविष्यच्छब्दार्थत्वात् । उत्पन्नस्य कालान्तरसम्बन्धज्ञानेऽपि • भविष्यतीति बुद्धिप्रयोगयोरभावाच्चेति चेत् । अद्वैतदीपिका, द्वि. प., पृ. ११५-११६
तथा अद्वैतदीपिकाविवरण, द्वि. प., पृ. ११५-११६ १६. ...न, वर्तमानक्षणासत्त्वोपहितोत्तरक्षणवैशिष्ट्यस्यैव भविष्यतीति बुद्धिविषयत्वात् । अद्वैतदीपिका,
द्वि. प., पृ. ११६ ...तन्तुषु पटो भविष्यति इत्याप्तोक्त्या तत्रागामिकाले पटासत्त्वशङ्का व्यावर्त्यते, प्रागभावप्रतियोगित्वमात्रस्य भविष्यच्छब्दार्थत्वे तन्नस्यात् । तत्र एतावन्तं कालं प्राग़भावसत्त्वेऽपि सहकारिविरहात् पटाभाववदनन्तरमपि तद्विरहात् तदभावसम्भवात् तत्सत्त्वनिश्चयायोगादिति भावः।
अद्वैतदीपिकाविवरण, द्वि. प., पृ. ११६ १७. वर्तमानक्षणासत्त्वं च न प्रागभावप्रतियोगित्वेन, किन्तु वर्तमानक्षणे तदवच्छिन्ने वा आगामिघटस्य · सर्वथाऽसत्त्वात् अत्यन्ताभावप्रतियोगित्वेनैव । अन्यथा देवदत्तः पण्डितो भविष्यतीत्यादिप्रत्ययप्रयोगौ नस्याताम् । अद्वैतदीपिका, द्वि. प., पृ. ११६