Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 354
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 814 // 0.5 नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1017 साधोनिक्षेपाः, स्वरूपादि। अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः, सङ्घात इति सङ्घातकरणम्, सातनं च शातनकरणंच उभयं सङ्घातशातनकरणं तथोभयनिषेध इति सङ्घातपरिशाटशून्यम् / अमीषामेवोदाहरणानि दर्शयन्नाह- पटः शङ्खःशकटं स्थूणा, जीवप्रयोग इति जीवप्रयोगकरणे तत्कायव्यापारमाश्रित्य यथासङ्ख्यमेतान्युदाहरणानि समवसेयानि, तथाहि- पटस्तन्तुसङ्घातात्मकत्वात् सङ्घातकरणं शसस्त्वेकान्तसाटकरणादेव शाटकरणंशकटं तक्षणकीलिकादियोगादुभयकरणंस्थूणा पुनरूतिर्यकरणयोगात् संघातशाटविरहादुभयशून्या इति गाथार्थः॥ उक्तं जीवप्रयोगकरणम्, आह- 'जं जं निजीवाणं कीरइ जीवप्पओगओ तं तं इत्यादिनाऽस्याजीवकरणतैव युक्तियुक्तेति, अत्रोच्यते, न, अभिप्रायापरिज्ञानाद्, इहादावेवाथवाशब्दप्रयोगतः प्रकारान्तरमात्रप्रदर्शनार्थमेतदुक्तम्, ततश्चात्र व्युत्पत्तिभेदमात्रमाश्रीयते, जीवप्रयोगात् करणं जीवप्रयोगकरणमिति, ज्यायांश्चान्वर्थ इत्यलं प्रसङ्गेन / उक्तं द्रव्यकरणम्, साम्प्रतं क्षेत्रकरणस्यावसरः, तत्रेयं नियुक्तिगाथा नि०-खित्तस्स नत्थि करणं आगासंजं अकित्तिमो भावो। वंजणपरिआवन्नं तहाविपुण उच्छुकरणाई // 1017 // इह क्षेत्रस्य नभसः नास्ति करणं निर्वृत्तिकारणाभावान्न विद्यते करणं मुख्यवृत्त्या आकाशं क्षेत्रं यद् यस्मात् अकृत्रिमो भावः / अकृतकः पदार्थः, अकृतकस्य च सतो नित्यत्वात् करणानुपपत्तिरिति भावः। आह- यद्येवं किमिति नियुक्तिकारेण निक्षेपगाथायामुपन्यस्तमिति?, अत्रोच्यते, व्यञ्जनपर्यायापन्नं तथापि पुनरिक्षुकरणाद्यस्त्येवेति, इह व्यञ्जनशब्देन क्षेत्राभिव्यञ्जकत्वात् पुद्गला गृह्यन्ते, तत्सम्बन्धात् पर्यायः कथञ्चित् प्रागवस्थापरित्यागेनावस्थान्तरापत्तिरित्यर्थः, तमापन्नं पुनस्तथाऽपि यदा विवक्ष्यते तदा पर्यायो द्रव्यादनन्य इति पर्यायद्वारेण क्षेत्रकरणमस्तीति सभावार्थाऽक्षरगमनिका / / उपचारमात्राद्वेक्षुकरणादि, यथेक्षुक्षेत्रकरणं शालिक्षेत्रकरणम्, अथवाऽऽदिशब्दाद् यत्र प्ररूप्यते क्रियते वेति गाथार्थः॥ 1017 // उक्तं

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404