Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 392
________________ |१.प्रथम श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 852 // |1047 कर्म करणमात्मा। योग: कर्म, कर्मणि च द्वितीया विभक्तिरतस्तमित्यभिधेये तस्येत्यभिधीयते किमर्थमिति?, आह-प्रयोजनार्थ षष्ठी विवक्षातः प्रयुक्ता सम्बन्धलक्षणाऽवयवलक्षणा वा, योऽसौ योगस्त्रिकालविषयस्तस्यातीतं सावधमंशमवयवं प्रतिक्रमामि न शेषं। मध्ययन वर्तमानमनागतंवा, केचित् पुनरविभागज्ञाः अविशिष्टमेव सामान्यं योगसम्बन्धयन्ति, तन्न युज्यते, अविशिष्टस्य त्रिकाल सामायिक, नियुक्तिः विषयस्य प्रतिक्रमणप्रयोजनाभावात्, ग्रन्थगुरुत्वापत्तेश्च, अविशिष्टमपि सम्बध्य पुनर्विशेषेऽवस्थापनीयस्तच्छब्द इति ग्रन्थगुरुता, यदेतत् प्रतिक्रमणमेतत् प्रायश्चित्तमध्ये पठितमतः प्रायश्चित्तमासेवितेऽतीतविषयमिति गतत्वादतीतप्रतिक्रमणमिति कर्ताऽऽत्मा, न वक्तव्यम्, इह पुनरुक्तत्वप्रसङ्गात्, यस्मादस्य प्रतिक्रमामीतिशब्दस्य कर्मणा भवितव्यमवश्यम्, तच्च भूतं सावद्ययोग सामायिकं, मुक्त्वा नान्यत् कर्म भवितुमर्हति, तस्मात्तस्येत्यवयवलक्षणया षष्ठ्या सम्बन्धः // आह- यद्येवं पुनरुक्तादिभयादभिधीयते तत इदमपरमाशङ्कापदमिति दर्शयति नि०-तिविहेणंति न जुत्तं पडिपयविहिणा समाहिअंजेण / अत्थविगप्पणयाए गुणभावणयत्ति को दोसो ? // 1047 // त्रिविधं त्रिविधेने त्यत्र त्रिविधेनेत्ययुक्तमिति, अत आह- प्रतिपदविधिना समाहितं येन यस्मात् प्रतिपदमभिहितमेव, 'मनसा वाचा कायेने ति, अत्रोच्यते, अर्थविकल्पनया गुणभावनयेति वा को दोषः?, एतदुक्तं भवति- अर्थविकल्पसङ्ग्रहार्थं न पुनरुक्तम्, अथवा गुणभावना पुनः पुनरभिधानाद्भवतीति न दोषः, अथवा मनसा वाचा कायेनेत्यभिहिते प्रतिपदं न करोमिन कारयामि नानुजानामीति यथासङ्ख्यमनुदेशः समानाना मिति यथासङ्ख्यकमनिष्टंमा प्रापदिति त्रिविधेनैकैकमुच्यते, त्रिविधमित्यत्रा // 852 // प्ययमेव प्रायः परिहार इति गाथार्थः॥१०४७॥ इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, 'तस्य भदन्त! प्रतिक्रमामी' त्यत्र भदन्तः / पूर्ववद् अतिचारनिवृत्तिक्रियाभिमुखश्च तद्विशुद्ध्यर्थमामन्त्रयत इति अत्राऽऽह- ननु पूर्वमुक्त एव भदन्तः स एवानुवर्तिष्यते,

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404