Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 861 // चशब्दः खलुभयोर्ग्रहीतव्याग्रहीतव्ययोख़तत्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं १.प्रथमव्यवहितः प्रयोगो द्रष्टव्यः- ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते अत्थंमित्ति अर्थ ऐहिकामुष्मिके, मध्ययन सामायिक, तत्रैहिक : ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिरुपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः नियुक्तिः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे जइअव्वमेव त्ति अनुस्वारलोपाद् 1054 यतितव्यं एवं अनेन क्रमेणैहिकामुष्मिकफलप्राप्त्यर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्न: कार्य इत्यर्थः, इत्थं यावजीवार्थः जीवनिक्षेपः चैतदङ्गीकर्तव्यम्, सम्यगज्ञाते प्रवर्तमानस्य फलविसंवाददर्शनात्, तथा चान्यैरप्युक्तं- विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा ओघेआयुः। मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात्॥१॥तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपिज्ञात एव यतितव्यम्, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तं- पढमणाणं तओ दया, एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काहिति किंवा णाहिति छेय पावगं? 1 // इतश्चैतदेवमङ्गीकर्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः-गीयत्थो यह विहारो बितिओ गीयत्थमीसओ भणिओ। एत्तो तइयविहारो णाणुण्णाओ जिणवरेहि॥१॥न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यत इत्यभिप्रायः। एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वंतस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षांप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्ति प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः। अज्ञानी किं करिष्यति? किं वा ज्ञास्यति छेकं पापकं (वा)? // 1 // ॐ गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रको भणितः। आभ्यां तृतीयो विहारो नानुज्ञातो जिनवरैः॥१॥ // 861 //

Page Navigation
1 ... 399 400 401 402 403 404