Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 393
________________ १.प्रथम श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 853 // करणमात्मा। एवमर्थं चादौ प्रयुक्त इत्यतः किं पुनरनेनेति?, अत्रोच्यते, अनुवर्तनार्थमेव अयं पुनरनुस्मरणाय प्रयुक्तः, यतः परिभाषाअनुवर्तन्ते च नाम विधयो, न चानुवर्तनादेव भवन्ति, किं, तर्हि?, यत्नाद्भवन्ति, 'स चायं यत्नः पुनरुच्चारण'मिति, अथवा ] मध्ययन सामायिक, सामायिकक्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः, अनेन चैतत् ज्ञापितं भवति- सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति, नियुक्तिः उक्तं च भाष्यकारेण-सामाइयपञ्चप्पणवयणो वाऽयं भदंतसहोत्ति / सव्वकिरियावसाणे भणियं पञ्चप्पणमणेणं॥१॥इति कृतं प्रसङ्गेन, 1048 प्रतिक्रमामीत्यत्र प्रतिक्रमणं मिथ्यादुष्कृतमभिधीयते, तच्च द्विधा- द्रव्यतो भावतश्च, तथा चाह नियुक्तिकारः कर्ताऽऽत्मा, कर्म नि०-दव्वंमि निण्हगार्ह कुलालमिच्छंति तत्थुदाहरणं / भावंमि तदुवउत्तो मिआवई तत्थुदाहरणं // 1048 // सामायिकं, 8 द्रव्य इति द्वारपरामर्शः, द्रव्यप्रतिक्रमणं तदभेदोपचारात् तद्वदेवोच्यते, अत एवाह-निवादि, आदिशब्दादनुपयुक्तादिपरिग्रहः, कुलालमिथ्यादुष्कृतं तत्रोदाहरणम्, तच्चेदं- एगस्स कुंभकारस्स कुडीए साहुणो ठिया, तत्थेगो चेल्लओ तस्स कुंभगारस्सल कोलालाणि अंगुलिधणुहएणं पाहाणएहिं विंधइ, कुंभगारेण पडिजग्गिउं दिट्ठो, भणिओय-कीस मे कोलालाणि काणेसि?, खुड्डओ भणइ-मिच्छामि दुक्कडंति, एवं सो पुणोऽवि विधिऊण मिच्छामिदुक्कडंति, पच्छा कुंभगारेण तस्स खुड्डगस्स कनामोडओ दिनो, सो भणइ-दुक्खाविओऽहं, कुंभगारो भणइ-मिच्छामि दुक्कडं, एवं सो पुणो पुणो कन्नामोडियं Oसामायिकप्रत्यर्पणवचनो वाऽयं भदन्तशब्द इति। सर्वक्रियावसाने भणितं प्रत्यर्पणमनेन // 1 // ॐ एकस्य कुम्भकारस्य कुट्यां (गृहे) साधवः स्थिताः, तत्रैकः क्षुल्लकस्तस्य कुम्भकारस्य भाजनानि अङ्गलधनुषा पाषाणैः काणीकरोति, कुम्भकारेण प्रतिजागर्य दृष्टः, भणितश्च- कथं मम भाजनानि काणयसि?, क्षुल्लको / भणति- मिथ्या मे दुष्कृतमिति, एवं स पुनरपि काणयित्वा मिथ्या मे दुष्कृतमिति (करोति) पश्चात् कुम्भकारेण तस्य क्षुल्लकस्य कर्णामोटको दत्तः, स भणति- दुःखि-8 तोऽहम्, कुम्भकारो भणति- मिथ्या मे दुष्कृतम्, एवं स पुनः पुनःकर्णामोटकं - B // 853 //

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404