Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 387
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 847 // १.प्रथममध्ययनं सामायिक, | नियुक्तिः 1045 सामायिकैकार्थिकानि। शब्दोऽयम्, सोऽयमपिशब्दः उभयशब्दमध्यस्थ एतत् करोति- यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यनुज्ञापयन्तमप्यन्य नानुजानामि, तथा यथा वर्तमानकाले कुर्वन्तमन्यं न समनुजानामीति एवमपिशब्दादतीतकाले कृतवन्तमपिकारितवन्तमपि तथाऽनागतेऽपि काले करिष्यन्तमपि कारयिष्यन्तमपीति त्रिकालोपसङ्ग्रहो वेदितव्य इति, न क्रियाक्रियावतोर्भेद एव अतो न केवला क्रिया सम्भवतीति ख्यापनार्थमन्यग्रहणम्, अत्रापि बहु वक्तव्यं तत्तु नोच्यते मा भूत् मुग्धमतिविनेयसम्मोह इति, किञ्चित्तु सूत्रस्पर्शनियुक्तौ वक्ष्याम इति / एवं तावदिदमेतावत् सूत्रस्य व्याख्यातम् // इह च सर्वंसावा योगं प्रत्याख्यामीत्यत्र प्रत्याख्यानं गृहस्थान् साधूंश्चाधिकृत्य भेदपरिणामतो निरूपयन्नाह नि०-सीआलं भंगसयं तिविहं तिविहेण समिइगुत्तीहिं। सुत्तप्फासिअनिश्रुत्तिवित्थरत्थो गओ एव // 1045 // गुरवस्तु व्याचक्षते- तदिदमेतावत् सूत्रस्य व्याख्यातम्, साम्प्रतं त्रिविधं त्रिविधेनेत्येतदेव किल व्याचष्टे, तत्र त्रिविधं सावधं योगं प्रत्याख्येयं कृतकारितानुमतिभेदभिन्नं त्रिविधेन मनसा वाचा कायेनेति करणेन प्रत्याख्याति यतः अतस्तद्भेदोपदर्शनायैवाऽऽह- सिआलं भंगसयंगाहा॥अत्राऽऽह-यद्येवमिह सर्वसावधयोगप्रत्याख्यानाधिकारात् सप्तचत्वारिंशदधिकशतं प्रत्याख्यानभेदानां गृहस्थप्रत्याख्यानभेदत्वादयुक्तमेतदिति, अत्रोच्यते, प्रत्याख्यानसामान्यतो गृहप्रत्याख्यानभेदाभिधानेऽप्यदोषत्वादित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र 'सीयालं भंगसयं'ति- एतद्भाव्यते, सीयालं भंगसयं गिहिपच्चक्खाणभेयपरिमाणं / तं च विहिणा इमेणं भावेयव्वं पयत्तेणं॥१॥ तिन्नि तिया तिन्नि दुगा तिन्निक्किक्का य होंति योगेसुं। तिदुएवं O सप्तचत्वारिंशं शतं भङ्गानां गृहिप्रत्याख्यानभेदपरिमाणम् / तच्च विधिनैतेन भावयितव्यं प्रयत्नेन // 1 // त्रयस्त्रिकास्त्रयो द्विकास्त्रय एककाश्च भवन्ति योगेषु। त्रयो. // 847 // R

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404