Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ 1. प्रथममध्ययन सामायिक, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 845 // साम्न एकार्थिकानि निक्षेपाश्च। उक्तं द्रव्यजीवितम्, आउयसद्दव्वया भवे ओहे त्ति आयुरिति प्रदेशकर्म तव्यसहचरितं जीवस्य प्राणधारणं सदैव संसारे भवेदोघ इति द्वारपरामर्शः ओघजीवितं सामान्यजीवितमित्यर्थः, इदंचाङ्गीकृत्य यदि परंसिद्धामृताः, न पुनरन्ये कदाचन इत्युक्तमोघजीवितम्, णेरइयाईण भवेत्ति नारकादीनामिति, आदिशब्दात् तिर्यङ्नरामरपरिग्रहः, भव इति द्वारपरामर्शः, स्वभवे स्थितिर्भवजीवितमिति, उक्तं भवजीवितम्, तब्भव तत्थेव उववत्ति त्ति तस्मिन् भवे जीवितं तद्भवजीवितम्, इदं चौदारिकशरीरिणामेव भवति, यत आह-तत्रैवोपपत्तिः, तत्रैवोपपात इत्यर्थः, भवश्च तदायुष्कबन्धस्य प्रथमसमयादारभ्य यावच्चरमसमयानुभव:, स चौदारिकशरीरिणां तिर्यमनुष्याणाम्, तद्भवोपपत्तिमागतानां तद्भवजीवितं भवति, ननु च भवजीवितमनन्तरं चतुर्दा वर्णितं नारकादिगतिसमापन्नानां याऽवस्था, तत्र स्वायुष्कबन्धकालात् प्रभृति सर्वैव भवस्थितिः यथास्वमबाधासहिता भवजीवितम्, इह तु तद्भवजीविते आबाधोनिका कर्मस्थितिः, तद्भवोदयात् प्रभृति कर्मनिषेकः तद्भवजीवितमिति महान् विशेषः, तत् किमर्थमौदारिकाणामेव?, उच्यते?, तेषां हि गर्भकालव्यवहितं योनिनिःसरणं जन्मोच्यते, तेन च गर्भकालेन सहैव तद्भवजीवितम्, वैक्रियशरीरिणां तूपपातादेव कालान्तराव्यवहितं जन्मेति जीवितं स्वाबाधाकालसहितमितिकृत्वा तद्भवजीवितमौदारिकाणामेव सुप्रतिपादमिति, तेषां चेदं स्वकायस्थित्यनुसारतो विज्ञेयमिति गाथार्थः॥ 189 // उक्तं तद्भवजीवितम्, नि०-भोगंमि चक्किमाई 7 संजमजीअंतुसंजयजणस्स 8 / जस ९कित्ती अभगवओ 10 संजमनरजीव अहिगारो॥१०४४॥ भोगंमित्ति द्वारपरामर्शः, भोगजीवितं च चक्रवर्त्यादीनाम्, आदिशब्दाद्बलदेववासुदेवादिपरिग्रहः, उक्तं च भोगजीवितम्, संजमजीयं तु संजयजणस्स त्ति संयमजीवितं तु 'संयतजनस्य' साधुलोकस्य, उक्तं संयमजीवितम्, जसकित्ती य भगवओ त्ति // 845 //

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404