Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ नमस्कार श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 821 // योजनाकरणं त्रिविधं त्रिप्रकारं मणवइकाए यत्ति मनोवाक्कायविषयम्, तत्र मनसि सत्यादि मनोविषयं सत्यादियोजनाकरणं तद्यथा- सत्यमनोयोजनाकरणम्, असत्यमनोयोजनाकरणम्, सत्यमृषामनोयोजनाकरणम्, असत्यामृषामनोयोजनाकरणमिति, स्वस्थाने प्रत्येकं मनोवाक्कायलक्षणे तेषां योजनाकरणानां भेदः विभागः चउ चउहा सत्तहा चेव त्ति अयमत्र भावार्थ:- मनोयोजनाकरणं चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितमेव, एवं वाग्योजनाकरणमपि चतुर्भेदमेव द्रष्टव्यम्, काययोजनाकरणं तु सप्तभेदम्, तद्यथा- औदारिककाययोजनाकरणम्, एवमौदारिकमिश्रम्, एवं वैक्रियकायः एवं वैक्रियमिश्रम्, एवमाहारककायः एवमाहारकमिश्रम्, एवं कार्मणकाययोजनाकरणमिति गाथार्थः॥१०२५॥ इत्थं तावद् व्यावर्णितं यथोद्दिष्टं करणम्, अधुनाऽत्र येनाधिकार इति तदर्शनायाऽऽह नि०- भावसुअसद्दकरणे अहिगारो इत्थ होइ कायव्वो।नोसुअकरणे गुणझुंजणे अजहसंभवं होइ॥१०२६॥ भावश्रुतशब्दकरणे अधिकारः अवतारोभवति कर्तव्यः श्रुतसामायिकस्य, नतुचारित्रसामायिकस्य, तस्य अन्ते यथासम्भवाभिधानाद, इह च भावश्रुतंसामायिकोपयोग एव, शब्दकरणमप्यत्र तच्छब्दविशिष्टः श्रुतभाव एव विवक्षितोन तु द्रव्यश्रुतमिति, तत्र वस्तुतोऽस्यानवतारात्, तथा नोश्रुतकरणमधिकृत्य गुणझुंजणे य त्ति गुणकरणे योजनाकरणे च यथासम्भवं भवति, अधिकरणमिति गम्यते, तत्र यथासम्भवमिति गुणकरणे चारित्रसामायिकस्यावतारः, तपःसंयमगुणात्मकत्वाच्चारित्रस्य, योजनाकरणेचमनोवाग्योजनायांसत्यासत्यामृषाद्वये द्वयस्यापि भावनीयः, काययोजनायामपि द्वयस्याद्यस्यैवेति गाथार्थः॥१०२६॥ // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां नमस्कारव्याख्याविवरणं समाप्तम् // व्याख्या, व्याख्या, नियुक्तिः 1026 नन्द्यनुयोगोपोद्ध ज्ञात्वा पञ्चमङ्गलम् पठित्त्वा सूत्रारम्भः / // 821 //

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404