Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 839 // कण्ठतस्तावदुक्ते चालनाप्रत्यवस्थाने, अत एव चात्र पुनरुक्तदोषोऽपि नास्ति, अनुवादद्वारेण चालनाप्रत्यवस्थानप्रवृत्तेरित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र सर्वं सावधं योगमित्याद्यवशिष्यते, तदिह सर्वशब्दनिरूपणायाऽऽह नि०- नामं१ठवणा र दविए 3 आएसे 4 निरवसेसए५चेव।तह सव्वधत्तसव्वं च 6 भावसव्वं च सत्तमयं७॥१०३७॥ इह सर्वमिति कः शब्दार्थः?, उच्यते, 'सृ गतौ' इत्यस्य औणादिको वप्रत्ययः सर्वशब्दो वा निपात्यते म्रियते स इति श्रियते वाऽनेनेति सर्वः, तदिदं च नामसर्वं स्थापनासर्वं द्रव्यसर्वं आदेशसर्वं निरवशेषसर्वं तथा सर्वधत्तसर्वं च भावसर्वं च सप्तममिति समासार्थः // 1037 // व्यासार्थं तुभाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदव्याचिख्यासया पुनराह भा०-दविए चउरो भंगा सव्व १मसव्वे अ२ दव्व 1 देसे अ२आएस सव्वगामो नीसेसे सव्वगं दुविहं // 185 // द्रव्य इति द्रव्यसर्वे चत्वारो भङ्गा भवन्ति, तानेव सूचयन्नाह- सव्वमसव्वे अ दव्व देसे य त्ति- अयमत्र भावार्थ:- इह यद्विवक्षितं द्रव्यमङ्गुल्यादि तत् कृत्स्नं- परिपूर्णं अनूनं स्वैरवयवैः सर्वमुच्यते, सकलमित्यर्थः, एवं तस्यैव द्रव्यस्य कश्चित्स्वावयवो देशः कृत्स्नतया- स्वावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा देशोऽपि सर्वः, एवमुभयस्मिन् द्रव्ये तद्देशे च सर्वत्वम्, तयोरेव यथास्वमपरिपूर्णतायामसर्वत्वम्, ततश्चतुर्भङ्गी- द्रव्यं सर्वं देशोऽपि सर्वः१ द्रव्यं सर्वं देशोऽसर्वः 2 देशः सर्वः द्रव्यमसर्वं 3 देशोऽसर्वः द्रव्यमप्यसर्वं 4, अत्र यथाक्रममुदाहरणं-सम्पूर्णमङ्गलि द्रव्यसर्वं तदेव देशोनं द्रव्यमसर्वम्, तथा देशः- पर्व तत्सम्पूर्ण देशसर्वं पर्वैकदेशः देशासर्वम्, एवं द्रव्यसर्वम् / अथाऽऽदेशसर्वमुच्यते- आदेशनं आदेश उपचारो व्यवहारः, स च बहुतरे प्रधाने वाऽऽदिश्यते देशेऽपि, यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः १.प्रथममध्ययन सामायिक, | नियुक्तिः 1037 क्षेत्रकालकरणे, जीवभावकरणे श्रुते बद्धाबद्धनिशीथानिशीथे नोश्रुते गुणे तप: संयमौ। भाष्य: 185 // 839 //

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404