Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 830 // साधोरिदमङ्गमध्ययनमुद्देशं वोद्दिशामि- वाचयामीत्यर्थः, आप्तोपदेशपारम्पर्यख्यापनार्थं क्षमाश्रमणानां हस्तेन, न स्वोत्प्रेक्षया, सूत्रतोऽर्थतस्तदुभयतो वाऽस्मिन् कालिकश्रुते अ(त)थोत्कालिके, दृष्टिवादे कथमिति?, तदुच्यते-दव्वगुणपज्जवेहि य दिट्ठीवायंमि बोद्धव्वो द्रव्यगुणपर्यायैश्च 'दृष्टिवादे' भूतवादे बोद्धव्योऽभिव्याहार इति, एतदुक्तं भवति-शिष्यवचनानन्तरमाचार्यवचनमुद्दिशामि सूत्रतोऽर्थतश्च द्रव्यगुणपर्यायैः अनन्तगमसहितैरिति, एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारः- ब्रवीति शिष्यः- उद्दिष्टमिदंमम, इच्छाम्यनुशासनं क्रियमाणं पूज्यैरिति, एवमभिव्याहारद्वारमष्टमं नीतिविशेषैर्नयैतमिति गाथार्थः॥१८२॥ व्याख्याता प्रतिद्वारगाथा, साम्प्रतमधिकृतमूलद्वारगाथायामेव करणं कतिविधमिति व्याचिख्यासुराह भा० - उद्देस १समुद्देसे२ वायण 3 मणुजाणणंच 4 आयरिए। सीसम्मि उद्दिसिज्जंतमाइ एअंतुजं कइहा // 183 // (दा०६) इह गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणम्, तच्चतुर्द्धा- उद्देस समुद्देसे ति उद्देशकरणं समुद्देशकरणं वायणमणुजाणणं चत्ति वाचनाकरणमनुज्ञाकरणंच, छन्दोभङ्गभयादिह वाचनाकरणमत्रोपन्यस्तम्, अन्यथाऽमुना क्रमेण इह- उद्देशो वाचना समुद्देशोऽनुज्ञा चेति गुरोर्व्यापारः, आयरिए त्ति गुराविदं करणं गुरुविषयमित्यर्थः, सीसम्मि उद्दिसिजंतमाइ शिष्ये-शिष्यविषयं उद्दिश्यमानादि- उद्दिश्यमानकरणं वाच्यमानकरणं समुद्दिश्यमानकरणं अनुज्ञायमानकरणं च, एयं तु जं कइह त्ति एतदेव चतुर्विधं तद् यदुक्तं कतिविधमिति गाथार्थः / / 183 // आह-पूर्वमनेकविधं नामादिकरणमभिहितमेव, इह पुनः किमिति प्रश्नः?, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तम्, इह पुनरस्मिन् गुरुशिष्यदानग्रहणकाले चतुर्विधं करणमिति, पूर्व वा करणमविशेषेणोक्तम्, इह गुरुशिष्यक्रियाविशेषाद् विशेषितमिति न पुनरुक्तम्, अथवाऽयमेव करणस्यावसरः, पूर्वत्रानेका 1. प्रथममध्ययन सामायिक, | नियुक्तिः | 1027 सूत्रस्पर्श करणभयान्तसामायिकसर्ववय॑योगप्रत्या ख्यानयावजीव| त्रिविधानां | निरूपणम्। भाष्य: 183 // 830 //

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404