________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 830 // साधोरिदमङ्गमध्ययनमुद्देशं वोद्दिशामि- वाचयामीत्यर्थः, आप्तोपदेशपारम्पर्यख्यापनार्थं क्षमाश्रमणानां हस्तेन, न स्वोत्प्रेक्षया, सूत्रतोऽर्थतस्तदुभयतो वाऽस्मिन् कालिकश्रुते अ(त)थोत्कालिके, दृष्टिवादे कथमिति?, तदुच्यते-दव्वगुणपज्जवेहि य दिट्ठीवायंमि बोद्धव्वो द्रव्यगुणपर्यायैश्च 'दृष्टिवादे' भूतवादे बोद्धव्योऽभिव्याहार इति, एतदुक्तं भवति-शिष्यवचनानन्तरमाचार्यवचनमुद्दिशामि सूत्रतोऽर्थतश्च द्रव्यगुणपर्यायैः अनन्तगमसहितैरिति, एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारः- ब्रवीति शिष्यः- उद्दिष्टमिदंमम, इच्छाम्यनुशासनं क्रियमाणं पूज्यैरिति, एवमभिव्याहारद्वारमष्टमं नीतिविशेषैर्नयैतमिति गाथार्थः॥१८२॥ व्याख्याता प्रतिद्वारगाथा, साम्प्रतमधिकृतमूलद्वारगाथायामेव करणं कतिविधमिति व्याचिख्यासुराह भा० - उद्देस १समुद्देसे२ वायण 3 मणुजाणणंच 4 आयरिए। सीसम्मि उद्दिसिज्जंतमाइ एअंतुजं कइहा // 183 // (दा०६) इह गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणम्, तच्चतुर्द्धा- उद्देस समुद्देसे ति उद्देशकरणं समुद्देशकरणं वायणमणुजाणणं चत्ति वाचनाकरणमनुज्ञाकरणंच, छन्दोभङ्गभयादिह वाचनाकरणमत्रोपन्यस्तम्, अन्यथाऽमुना क्रमेण इह- उद्देशो वाचना समुद्देशोऽनुज्ञा चेति गुरोर्व्यापारः, आयरिए त्ति गुराविदं करणं गुरुविषयमित्यर्थः, सीसम्मि उद्दिसिजंतमाइ शिष्ये-शिष्यविषयं उद्दिश्यमानादि- उद्दिश्यमानकरणं वाच्यमानकरणं समुद्दिश्यमानकरणं अनुज्ञायमानकरणं च, एयं तु जं कइह त्ति एतदेव चतुर्विधं तद् यदुक्तं कतिविधमिति गाथार्थः / / 183 // आह-पूर्वमनेकविधं नामादिकरणमभिहितमेव, इह पुनः किमिति प्रश्नः?, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तम्, इह पुनरस्मिन् गुरुशिष्यदानग्रहणकाले चतुर्विधं करणमिति, पूर्व वा करणमविशेषेणोक्तम्, इह गुरुशिष्यक्रियाविशेषाद् विशेषितमिति न पुनरुक्तम्, अथवाऽयमेव करणस्यावसरः, पूर्वत्रानेका 1. प्रथममध्ययन सामायिक, | नियुक्तिः | 1027 सूत्रस्पर्श करणभयान्तसामायिकसर्ववय॑योगप्रत्या ख्यानयावजीव| त्रिविधानां | निरूपणम्। भाष्य: 183 // 830 //