Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 831 // न्तद्योतनाथ विन्यासः कृत इति विचित्रा सूत्रस्य कृतिरित्यलं विस्तरेण, द्वारं 6 / कथमिति द्वारमिदानीम्, तत्रेयं गाथा नि०- कह सामाइअलंभो? तस्सव्वविघाइदेसवाघाई। देसविघाईफड्डगअणंतवुद्दीविसुद्धस्स // 1028 // नि०- एवं ककारलंभो सेसाणवि एवमेव कमलंभो (दा०) / एअंतु भावकरणं करणे अभए अजंभणिअं॥१०२९॥ कथं केन प्रकारेण सामायिकलाभ इति प्रश्नः, अस्योत्तरं- तस्य-सामायिकस्य सर्वविघातीनि देशविघातीनि च स्पर्द्धकानि भवन्ति, इह सामायिकावरणं-ज्ञानावरणं दर्शनावरणं (मिथ्यात्व) मोहनीयंच, अमीषां द्विविधानि स्पर्धकानि-देशघातीनि सर्वघातीनि च, तत्र सर्वघातिषु सर्वेषूद्धातितेषु सत्सु देशघातिस्पर्द्धकानामप्यनन्तेषूद्धातितेष्वनन्तगुणवृद्ध्या प्रतिसमय विशुद्ध्यमानः शुभशुभतरपरिणामो भावतः ककारं लभते, तदनन्तगुणवृद्ध्यैव प्रतिसमयं विशुद्धमानः सन् रेफमित्येवं शेषाण्यपि, अत एवाऽऽह- देशघातिस्पर्द्धकानन्तवृद्ध्या विशुद्धस्य सतः॥ किं?- एव मित्यादि,- पूर्वार्द्धं गतार्थम्, आहउपक्रमद्वारेऽभिहितमेतत्-क्षयोपशमात् जायते, पुनश्चोपोद्धातेऽभिहितमेतत्- कथं लभ्यत इति तत्रोक्तम्, इह किमर्थं प्रश्न इति पुनरुक्तता, उच्यते, त्रयमप्येतदपुनरुक्तम्, कुतः?, यस्मादुपक्रमे क्षयोपशमात् सामायिकं लभ्यतम् इत्युक्तम्, उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः, इह पुनर्विशेषिततरः प्रश्नः- केषां पुनः कर्मणां स क्षयोपशम इति प्रत्यासन्नतरकारणप्रश्न इत्यलं प्रसङ्गेन / द्वारमेवोपसंहरन्नाह- एतदेव- अनन्तरोदितं सामायिककरणं यत्तद्भावकरणं करणे य त्ति उपन्यस्तद्वारपरामर्शः / भए यत्ति भयमपि यद् भणितं यदुक्तमिति गाथाद्वयार्थः॥ 1028-1029 / / मूलद्वारगाथायां करणमित्येतद्वारं व्याख्यातम्, एतद्व्याख्यानाच्च सूत्रेऽपि करोमीत्ययमवयव इति, अधुना द्वितीयावयवव्याचिख्यासयाऽऽह भा०- होइ भयंतो भयअंतगो अरयणा भयस्स छन्भेआ।सव्वंमि वन्निएऽणुक्कमेण अंतेवि छन्भेआ॥१८४॥ 1. प्रथममध्ययन सामायिक, नियुक्ति: 1028 सूत्रस्पर्श करणभयान्तसामायिकसर्ववय॑योगप्रत्याख्यानयावज्जीवत्रिविधानां निरूपणम्। नियुक्ति: 1029 क्षेत्रकालकरणे, जीवभावकरणे श्रुते बद्धाबद्धनिशीथानिशीथे नोश्रते गुणे तप:संयमो। भाष्य: 184 // 831 //

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404