Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 367
________________ श्रीआवश्यक निर्यक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 827 // // 178 // (दा०५) इहाऽऽभिमुख्येन गुरोरात्मदोषप्रकाशनं- आलोचनानयः, तथा विनयश्च पदधावनानुरागादिः, तथा क्षेत्रं इक्षुक्षेत्रादि, तथा दिगभिग्रहश्च वक्ष्यमाणलक्षणः, कालश्चाहरादिः, तथा रिक्षसम्पत्- नक्षत्रसंपत् गुणसंपच्च गुणा:- प्रियधर्मादयः, अभिव्याहरणं अभिव्याहारश्चाष्टमो नय इति गाथासमासार्थः // 178 // व्यासार्थं तु प्रतिपदं भाष्यकार एव सम्यग् न्यक्षेण वक्ष्यति, तथा चाऽऽद्यद्वारव्याचिख्यासयाऽऽह भा०- पव्वजाए जुग्गं तावइ आलोअणं गिहत्थेसुं। उवसंपयाइ साहुसु सुत्ते अत्थे तदुभए अ॥१७९॥ (प०१) प्रव्रज्यायाः-निष्क्रमणस्य यत् प्राणिजातं स्त्रीपुरुषनपुंसकभेदं योग्यं अनुरूपं तदन्वेषणम्, यदिति वाक्यशेषः, तावत्येवाsलोचनाऽवलोकना वा, केषु?- गृहस्थेषु गृहस्थविषय इति, एतदुक्तं भवति- योग्यं हि सर्वोपाधिशुद्धमेव भवति, ततश्च तदन्वेषणेन सर्वस्यैव विधेः कस्त्वं? कोवा ते निर्वेदः? इत्यादिप्रश्नादेराक्षेप इति, ततश्च प्रयुक्तालोचनस्य योग्यताऽवधारणानन्तरं सामायिकं दद्यात्, न शेषाणां प्रतिषिद्धदीक्षाणामिति नयः। एवं तावद् गृहस्थस्याकृतसामायिकस्य सामायिकार्थमालोचनोक्ता, साम्प्रतं कृतसामायिकस्य यतेः प्रतिपादयन्नाह- उपसम्पदि साधुषु आलोचनेति वर्तते, सूत्रे अर्थे तदुभये च, इयमत्र भावना-सामायिकसूत्राद्यर्थं यदा कश्चिदुपसम्पदं प्रयच्छति यतिस्तदाऽसावालोचनां ददाति, अत्र विधिः सामाचार्यामुक्त एव, आह-अल्पं सामायिकसूत्रम्, तत्कथं तदर्थमपि यतेरुपसम्पत्?, तदभावे वा कथं यतिः? कथं वा प्रतिक्रमणमन्तरेण शुद्धिरिति?, अत्रोच्यते, मन्दग्लानादिव्याघाता विस्मृतसूत्रस्य यतेः सूत्रार्थमप्युपसम्पदविरुद्धैव, एष्यत्कालंवा दुष्षमान्तमा 1. प्रथममध्ययनं सामायिक, नियुक्तिः 1027 सूत्रस्पर्श करणभयान्तसामायिकसर्ववय॑योगप्रत्याख्यानयावद्धीवत्रिविधानां निरूपणम्। भाष्य: 179 // 827

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404