Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 357
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ | // 817 // नमस्व व्याख्या, व्याख्या, पञ्चविधत्वे कमेच शङ्का समाध इहानुस्वारस्यालाक्षणिकत्वान्जीवाजीवयोः सम्बन्धिभाव इति भावविषयंकरणमवसेयमिति, अल्पवक्तव्यत्वादजीवभावकरणमेवादावुपदर्शयति- अजीवकरणं तु तुशब्दस्य विशेषणार्थत्वादजीवभावकरणं परिगृह्यते, तत्र तयोर्मध्ये वर्णादि, इह | परप्रयोगमन्तरेणाभ्रादेर्नानावर्णान्तरगमनं तदजीवभावकरणम्, आदिशब्दाद् गन्धादिपरिग्रहः, तत्राऽऽह- ननु च द्रव्यकरणमपि विश्रसाविषयमित्थंप्रकारमेवोक्तम्, कोन्वत्र भावकरणे विशेष इति?, उच्यते, इह भावाधिकारात्पर्यायप्राधान्यमाश्रीयते नियुक्तिः 1020-1021 तत्र तु द्रव्यप्राधान्यमिति विशेषः, जीवकरणं तु पुनः द्विविधं 'द्विप्रकारं- श्रुतकरणं नोश्रुतकरणं च, श्रुतकरणमिति श्रुतस्य / जीवभावत्वाच्छूतभावकरणम्, नोश्रुतभावकरणं च गुणकरणादि, चशब्दस्य व्यवहितः सम्बन्ध इति गाथार्थः // 1019 // साम्प्रतं जीवभावकरणेनाधिकार इति तदेव यथोद्दिष्टं तथैव भेदतः प्रतिपिपादयिषुराह नि०- बद्धमबद्धंतु सुअंबद्धंतु दुवालसंग निद्दिटुं। तब्विवरीअमबद्धं निसीहमनिसीह बद्धंतु॥१०२०॥ इह बद्धमबद्धं तु श्रुतम्, तुशब्दो विशेषणार्थः, किं विशिनष्टि?- लौकिकलोकोत्तरभेदमिदमेवमिति, तत्र पद्यगद्यबन्धनाद् बद्धं शास्त्रोपदेशवत्, अत एवाह -बद्धं तु द्वादशाङ्गं- आचारादिगणिपिटकं निर्दिष्टम्, तुशब्दस्य विशेषणार्थत्वाल्लोकोत्तरमिदम्, लौकिकंतु भारतादि विज्ञेयमिति, तद्विपरीतमबद्धं लौकिकलोकोत्तरभेदमेवावसेयमिति, निसीहमनीसीह बद्धं तु त्ति इह बद्धश्रुतं निषीथमनिषीथंच, तुशब्दः पूर्ववत्, तत्र रहस्ये पाठाद्रहस्योपदेशाच्च प्रच्छन्नं निषीथमुच्यते, प्रकाशपाठात् प्रकाशोपदेशत्वाचानिषीथमिति गाथार्थः॥१०२०॥साम्प्रतमनिषीथनिषीथयोरेव स्वरूपप्रतिपादनायाह नि०- भूआपरिणयविगए सद्दकरणं तहेव न निसीहं / पच्छन्नं तु निसीह निसीहनामं जहऽज्झयणं // 1021 // भूतं- उत्पन्नं अपरिणतं- नित्यं विगतं- विनष्टम्, ततश्च भूतापरिणतविगतानि, एतदुक्तं भवति-'उप्पण्णे इ वा विगए इ वा // 81

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404