SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 814 // 0.5 नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1017 साधोनिक्षेपाः, स्वरूपादि। अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः, सङ्घात इति सङ्घातकरणम्, सातनं च शातनकरणंच उभयं सङ्घातशातनकरणं तथोभयनिषेध इति सङ्घातपरिशाटशून्यम् / अमीषामेवोदाहरणानि दर्शयन्नाह- पटः शङ्खःशकटं स्थूणा, जीवप्रयोग इति जीवप्रयोगकरणे तत्कायव्यापारमाश्रित्य यथासङ्ख्यमेतान्युदाहरणानि समवसेयानि, तथाहि- पटस्तन्तुसङ्घातात्मकत्वात् सङ्घातकरणं शसस्त्वेकान्तसाटकरणादेव शाटकरणंशकटं तक्षणकीलिकादियोगादुभयकरणंस्थूणा पुनरूतिर्यकरणयोगात् संघातशाटविरहादुभयशून्या इति गाथार्थः॥ उक्तं जीवप्रयोगकरणम्, आह- 'जं जं निजीवाणं कीरइ जीवप्पओगओ तं तं इत्यादिनाऽस्याजीवकरणतैव युक्तियुक्तेति, अत्रोच्यते, न, अभिप्रायापरिज्ञानाद्, इहादावेवाथवाशब्दप्रयोगतः प्रकारान्तरमात्रप्रदर्शनार्थमेतदुक्तम्, ततश्चात्र व्युत्पत्तिभेदमात्रमाश्रीयते, जीवप्रयोगात् करणं जीवप्रयोगकरणमिति, ज्यायांश्चान्वर्थ इत्यलं प्रसङ्गेन / उक्तं द्रव्यकरणम्, साम्प्रतं क्षेत्रकरणस्यावसरः, तत्रेयं नियुक्तिगाथा नि०-खित्तस्स नत्थि करणं आगासंजं अकित्तिमो भावो। वंजणपरिआवन्नं तहाविपुण उच्छुकरणाई // 1017 // इह क्षेत्रस्य नभसः नास्ति करणं निर्वृत्तिकारणाभावान्न विद्यते करणं मुख्यवृत्त्या आकाशं क्षेत्रं यद् यस्मात् अकृत्रिमो भावः / अकृतकः पदार्थः, अकृतकस्य च सतो नित्यत्वात् करणानुपपत्तिरिति भावः। आह- यद्येवं किमिति नियुक्तिकारेण निक्षेपगाथायामुपन्यस्तमिति?, अत्रोच्यते, व्यञ्जनपर्यायापन्नं तथापि पुनरिक्षुकरणाद्यस्त्येवेति, इह व्यञ्जनशब्देन क्षेत्राभिव्यञ्जकत्वात् पुद्गला गृह्यन्ते, तत्सम्बन्धात् पर्यायः कथञ्चित् प्रागवस्थापरित्यागेनावस्थान्तरापत्तिरित्यर्थः, तमापन्नं पुनस्तथाऽपि यदा विवक्ष्यते तदा पर्यायो द्रव्यादनन्य इति पर्यायद्वारेण क्षेत्रकरणमस्तीति सभावार्थाऽक्षरगमनिका / / उपचारमात्राद्वेक्षुकरणादि, यथेक्षुक्षेत्रकरणं शालिक्षेत्रकरणम्, अथवाऽऽदिशब्दाद् यत्र प्ररूप्यते क्रियते वेति गाथार्थः॥ 1017 // उक्तं
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy