________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 815 // क्षेत्रकरणम्, इदानीं कालकरणस्यावसरः, तत्रेयं गाथानि०- कालेविनत्थि करणंतहाविपुण वंजणप्पमाणेणं / बवबालवाइकरणेहिंऽणेगहा होइ ववहारो॥१०१८ // नमस्कार व्याख्या, कलनं कालः कलासमूहो वा कालस्तस्मिन् कालेऽपि, न केवलं क्षेत्रस्य, किं?, नास्ति करणं-न विद्यते कृतिः, कुतः? व्याख्या, तस्य वर्तनादिरूपत्वाद्, वर्तनादीनां च स्वयमेव भावात्, समयाद्यपेक्षायां च परोपादानत्वादिति भावना, आह- यद्येवं नियुक्तिः किमिति नियुक्तिकृतोपन्यस्तमिति?, अत्रोच्यते, तथाऽपि पुनर्व्यञ्जनप्रमाणेन भवतीति शेषः, इह व्यञ्जनशब्देन विवक्षया |1018 पञ्चविधत्वे वर्तनाद्यभिव्यञ्जकत्वाद् द्रव्याणि गृह्यन्ते, तत्प्रमाणेन- तन्नीत्या तद्बलेन भवतीति, तथाहि वर्तनादयस्तद्वतां कथञ्चिदभिन्ना क्रमेच एव, ततश्च तद्वतां करणे तेषामपि करणमेवेति भावना, समयादिकालापेक्षायामपि व्यवहारनयादस्ति कालकरणमिति, शङ्का समाधानम। आह च- बवबालवादिकरणैरनेकधा भवति व्यवहार इति, अत्रादिशब्दात् कौलवादीनि गृह्यन्ते, उक्तं च- बवं च बालवं चेव, कोलवं थीविलोयणं / गराइ वणियं चेव, विट्ठी भवइ सत्तमा॥१॥एयाणि सत्त करणाणि चलाणि वटुंति, अवराणि सउणिमाईणि चत्तारि थिराणि, उक्तं च- सउणि चउप्पय णागं किंछुग्धं च करणं थिरं चउहा। बहुलचउद्दसिरत्ती सउणी सेसं तियं कमसो॥१॥एस एत्थ भावणा-बहुलचउद्दसिराईए सउणी हवति, सेसं तियं चउप्पयाई करणं अमावासाए दिया राओ य तो पडिवयदियाय, तओसुद्धपडिवयणिसादौ बवाईणि हवंति, एएसिंच परिजाणणोवाओ-पक्खतिहओदुगुणिया दुरूवहीणा य सुक्लपक्खंमि। O बवं च बालवं चैव कौलवं स्त्रीविलोचनम्। गरादि वणिक् चैव विष्टिर्भवति सप्तमी॥१॥ एतानि सप्त करणानि चलानि वर्त्तन्ते, अपराणि शकुन्यादीनि चत्वारि स्थिराणि,- शकुनिश्चतुष्पदं नागः किंस्तुघ्नं च करणानि स्थिराणि चतुर्धा। कृष्णचतुर्दशीरात्रौ शकुनिः शेषं त्रिकं क्रमशः॥ 1 // एषाऽत्र भावना- कृष्णचतुर्दशीरात्रौ 8 शकुनिर्भवति शेषं त्रयं चतुष्पदादिकरणं अमावास्याया दिवा रात्रौ च ततः प्रतिपद्दिवसे च, ततः शुद्धप्रतिपन्निशादी बवादीनि भवन्ति, एतेषां च परिज्ञानोपायःपक्षतिथयो द्विगुणिता द्विरूपहीनाश्च शुक्लपक्षे। R / / 815 //