________________ 0.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 813 // वर्तते, अन्तर्मुहूर्तमात्रकालावस्थायित्वादस्येति गर्भार्थः, उत्कृष्टात्तु जघन्यो लघुतरो वेदितव्य इति गाथार्थः // साम्प्रतमाहारकमेवाधिकृत्य सङ्घाताद्यन्तरमभिधातुकाम आह भा०- बंधणसाडुभयाणं जहन्नमंतोमुत्तमंतरणं / उक्कोसेण अवई पुग्गलपरिअट्टदेसूणं // 171 // बन्धनं- सङ्घातः शाट:- शाट एव उभयं सातशाटौ अमीषां बन्धनशाटोभयानां जघन्यं सर्वस्तोकं अन्तर्मुहर्तमन्तरणं अन्तर्मुहूर्तविरहकालः, सकृत्परित्यागानन्तरमन्तर्मुहूर्तेनैव तदारम्भादिति भावना, उत्कर्षतः अर्द्धपुद्गलपरावर्तो देशोनोऽन्तरमिति, सम्यग्दृष्टिकालस्योत्कृष्टस्याप्येतावत्परिमाणत्वादिति गाथार्थः / उक्ताऽऽहारकशरीरमधिकृत्य सातादिवक्तव्यता, इदानीं तैजसकार्मणे अधिकृत्याऽऽह भा०- तेआकम्माणं पुण संताणाणाइओन संघाओ। भव्वाण हुज साडो सेलेसीचरमसमयंमि // 172 // तैजसकार्मणयोः पुनर्द्वयोः शरीरयोः सन्तानानादितः कारणात्, किं?, न सङ्घात:- न तत्प्रथमतया ग्रहणम्, प्रागेव सिद्धिप्रसङ्गात्, भव्यानां भवेत् शाटः केषाञ्चित्, कदेति?, अत आह- शैलेशीचरमसमये, स चैकसामायिक एवेति गाथार्थः॥ भा०- उभयं अणाइनिहणं संतं भव्वाणं हुज्ज केसिंचि / अंतरमणाइभावा अच्चंतविओगओनेसिं // 173 // उभयं इति सङ्घातपरिशाटोभयं प्रवाहमङ्गीकृत्य सामान्येन अनाद्यनिधनं अनाद्यपर्यवसितमित्यर्थः, सान्तं सपर्यवसानमुभयं भव्यानां भवेत् केषाश्चित्, न तु सर्वेषामिति, अन्तरमनादिभावादत्यन्तवियोगतश्च नानयोरिति गाथार्थः॥१७३ / / अथवेदमन्यजीवप्रयोगनिर्वृत्तं चतुर्विधं करणमिति, आह च भा०-अहवासंघाओ१साडणंच 2 उभयं 3 तहोभयनिसेहो 4 / पड १संख रसगड २थूणा ४जीवपओगे जहासंखं // 174 // नमस्कारव्याख्या, व्याख्या, नियुक्तिः |1016 साधोनिक्षेपाः, स्वरूपादि। भाष्यः 171-174 // 813 //