________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 812 // 0.5 नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1016 साधो निक्षेपाः, इह वैक्रियस्यैव सङ्घातपरिशाटः खलुभयरूपः कालतो जघन्य एकसामयिको भवति, उत्कृष्टस्त्रयस्त्रिंशत् सागरोपमाणि सागरनामानि समयोनानीति गाथाक्षरार्थः॥भावार्थस्त्वयं- उभयंजहण्ण समओ सोपुण दुसमयविउव्वियमयस्स / परमतराई संघातसमयहीणाई तेत्तीसं॥१॥' इदानीं वैक्रियमेवाधिकृत्य सङ्घाताद्यन्तरमभिधित्सुराह___ भा०- सव्वग्गहोभयाणं साडस्स य अंतरं विउव्विस्स। समओ अंतमुहत्तं उक्कोसं रुक्खकालीअं॥१६९॥ इह सर्वग्रहोभययोः सङ्घातसंघातपरिशाटयोरित्यर्थः,शाटस्य च अन्तरं विरहकाल: वैक्रियस्य वैक्रियशरीरसम्बन्धिनः समयः सङ्घातस्योभयस्य च, अन्तर्मुहूर्तं शाटस्य, इदं तावज्जघन्यं त्रयाणामपि कथं ज्ञायत इति चेत्? यत आह- उत्कृष्टं वृक्षकालिक वृक्षकालेनानन्तेन निर्वृत्तं वृक्षकालिकमिति गाथाक्षरार्थः॥भावार्थस्त्वयं-"संघातंतरसमयो दुसमयविउव्वियमयस्स तइयंमि। सो दिवि संघातयतो तइए व मयस्स तइयंमि॥१॥' अविग्रहेण सङ्घातयतः द्वितीयसङ्घातपरिशाटस्य समय एवान्तरमिति, उभयस्स चिरविउव्वियमयस्स देवेसविग्गह गयस्स।साडस्संतोमुहुत्तं तिण्हवि तरुकालमुक्कोसं॥१॥'उक्ता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्यैनां प्रतिपादयन्नाह भा०- आहारे संघाओ परिसाडो असमयं समं होइ / उभयं जहन्नमुक्कोसयं च अंतोमुहत्तं तु // 17 // आहार इत्याहारकशरीरे सङ्घातः- प्राथमिको ग्रहः परिशाटश्च- पर्यन्ते मोक्षश्च, कालतः समयं कालविशेष समतुल्यं भवति, सङ्घातोऽपि समयं शाटोऽपि समयमित्यर्थः, उभयं सङ्घातपरिशाटोभयं गृह्यते तज्जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवतीति उभयस्मिन् जघन्यः समयः स पुनर्द्विसमयवैक्रियमृतस्य / परमतराणि संघातसमयहीनानि त्रयस्त्रिंशत् // 1 // 0 संघातान्तरं समयो द्विसमयवैक्रियमृतस्य तृतीये। स दिवि संघातयतः तृतीये वा मृतस्य तृतीये।। 1 // 0 उभयस्य चिरविकुर्वितमृतस्य देवे सविग्रहं गतस्य / शाटस्यान्तर्मुहूर्त त्रयाणामपि तरुकालमुत्कृष्टम् // 1 // स्वरूपादि। भाष्यः 169-170