________________ नमस्कार व्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 811 // व्याख्या, नियुक्तिः 1016 भा०-अंतरमेगसमयं जहन्नमोरालगहणसाडस्स।सतिसमया उक्कोसं तित्तीसंसागरा हुंति // 166 // अन्तरं अन्तरालम्, एक समयं जघन्यं सर्वस्तोकम्, औदारिकग्रहणशाटयोरिति, सत्रिसमयान्युत्कृष्टं त्रयस्त्रिंशत् सागरोपमाणि भवन्तीति गाथाक्षरार्थः। भावार्थस्तु भाष्यगाथाभ्यामवसेयः, ते चेमे-उभयंतरं जहण्णं समओ निविग्गहेण संघाए। परमं सतिसमयाई तित्तीसं उदहिनामाई॥१॥ अणुभविउं देवाइसु तेत्तीसमिहागयस्स तइयमी। समए संघायतओ नेयाई समयकुसलेहिं॥२॥ उक्तौदारिकमधिकृत्य सर्वसातादिवक्तव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा भा०-वेउव्विअसंघाओजहन्नुसमओ उदुसमउक्कोसो।साडोपुण समयं चिअविउव्वणाए विणिद्दिट्ठो॥१६७॥ वैक्रियसङ्घातः कालतो जघन्यः सर्वस्तोकः समय एव, तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्, अयं चौदारिकशरीरिणां वैक्रियलब्धिमतां विकुर्वणारम्भे देवनारकाणां च तत्प्रथमतया शरीरग्रहण इति, तथा द्विसमय इति द्विसमयमान उत्कृष्टः वैक्रियसनात इति वर्तते कालतश्चेति गम्यते, स पुनरौदारिकशरीरिणो वैक्रियलब्धिमतस्तद्विकुर्वणारम्भ एव वैक्रियसनातं समयेन कृत्वाऽऽयुष्कक्षयात् मृतस्याविग्रहगत्या देवेषूपपद्यमानस्य वैक्रियमेव सङ्घातयतोऽवसेय इति भावना, शाटः पुनः समयमेव कालतः विकुर्वणायां वैक्रियशरीरविषयो विनिर्दिष्ट इति गाथाक्षरार्थः। अधुना सङ्घातपरिशाटकालमानमभिधित्सुराह भा०-संघायणपरिसाडो जहन्नओएगसमइओ होइ। उक्कोसं तित्तीसंसायरणामाइंसमऊणा॥१६८॥ 0 उभयान्तरं जघन्यं समयो निर्विग्रहेण संघाते। परमं स त्रिसमयानि त्रयस्त्रिंशत् उदधिनामानि // 1 // अनुभूय देवादिषु त्रयस्त्रिंशतमिहागतस्य तृतीये। समये संघातयत एव ज्ञेयानि समयकुशलैः॥ 2 // * संघाययओ दुविहं साडतरं वोच्छं (इति वि० भा०)। साधोनिक्षेपाः, स्वरूपादि। भाष्य: 166-168 // 8 1 //