Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 63
________________ ५६ अनुसन्धान- ७२ श्रीकुमारविहारेऽसा- वकार्षीन् मूलनायकम् । तदाये हट्टिकां चैकां, तन्दुलेच्छा (लोञ्छ) मतिव्य ( र्व्य) धात् ॥ २५ ॥ ४ / ६९७ पौत्रप्रतापसिंहस्य, तद्भ्रातुश्च कनीयसः । श्रेयसे किञ्च तत्राऽर्हत् खत्तके द्वे चकार सः ||२६|| ४/६९८ आसराजविहारस्य (राख्यं), प्रासादमृषभप्रभोः । कुमारदेवीवी (वि) हार - नामधेयं च नेमिनः ||२७|| ४ / ६९९ एकस्थण्डिलबन्धेनो-भयं तत्कृतसंश्रयम् । एकनिर्गमनद्वारं, द्विप्रवेशबलानकम् ||२८|| ४ / ६९९ अष्टमण्डपमुद्दण्ड-द्विपञ्चाशज्जिनालयम् । आरासनोत्तानपट्ट-द्वारपत्रपवित्रितम् ||२९|| ४/७०० शत्रुञ्जयोज्जयन्ताद्रि- तीर्थयो(:) प्रतिहस्तकम् । पित्रोः श्रेय(:)कृते तत्रो - तुङ्गा (ङ्गं) कारयति स्म सः ॥३०॥ ([चतुर्भिः] कलापकम्) ४/७०२ तदाये हट्टके द्वे तु चतु (त) स्रो गेहपाठिका (:) । वाटिकामप्यसावेकां, ददावेकान्तधार्मिकः ॥३१॥ ४/७०३ आसराजविहारे च, पित्तलामयमुच्चकैः । असौ चकार समव-सरणं कारणं श्रियः ॥ ३२॥ ४/७०४ वसतीरिह चारित्र - प्रतिष्ठानवतीरयम् । पञ्च प्रपञ्चयामास, भवाम्भोधी तरीरिव ॥ ३३॥ ४/७०५ सङ्ख्ये शङ्खमहीपते: समपतन् ये भूणपालादयो, वीरा विक्रमवृत्तिनिर्मलकथावाचालितोर्वीतलाः । तत्तन्नामनिरूपणानि स महीतीरे महीयान् दश, स्थाणोर्देवकुलानि दुर्जनकुल श्रीबन्द (न्दि) कारोऽकरोत् ||३४|| ४/७१० स्वगोत्रदेवतायाः श्री-चण्डिकायास्तथाऽम्बुधेः । ज[ग]त्यामेतदीयायां, स देवकुलिके व्यधात् ॥३५॥ शङ्खम(न) कृतपूर्वी स:, आसराजसुतो रणम् । तत्पुरः कारयामास, चतु:स्तम्भेस (षु) तोरणम् ॥३६॥ तपोधनमहं चैतत्, प्रतिबद्धमकारयत् । प्रभूतमेतदायं च नानाविधमकारयत् ॥३७॥

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142