________________
५६
अनुसन्धान- ७२
श्रीकुमारविहारेऽसा- वकार्षीन् मूलनायकम् ।
तदाये हट्टिकां चैकां, तन्दुलेच्छा (लोञ्छ) मतिव्य ( र्व्य) धात् ॥ २५ ॥ ४ / ६९७ पौत्रप्रतापसिंहस्य, तद्भ्रातुश्च कनीयसः ।
श्रेयसे किञ्च तत्राऽर्हत् खत्तके द्वे चकार सः ||२६|| ४/६९८ आसराजविहारस्य (राख्यं), प्रासादमृषभप्रभोः । कुमारदेवीवी (वि) हार - नामधेयं च नेमिनः ||२७|| ४ / ६९९ एकस्थण्डिलबन्धेनो-भयं तत्कृतसंश्रयम् ।
एकनिर्गमनद्वारं, द्विप्रवेशबलानकम् ||२८|| ४ / ६९९ अष्टमण्डपमुद्दण्ड-द्विपञ्चाशज्जिनालयम् । आरासनोत्तानपट्ट-द्वारपत्रपवित्रितम् ||२९|| ४/७०० शत्रुञ्जयोज्जयन्ताद्रि- तीर्थयो(:) प्रतिहस्तकम् । पित्रोः श्रेय(:)कृते तत्रो - तुङ्गा (ङ्गं) कारयति स्म सः ॥३०॥ ([चतुर्भिः] कलापकम्) ४/७०२ तदाये हट्टके द्वे तु चतु (त) स्रो गेहपाठिका (:) । वाटिकामप्यसावेकां, ददावेकान्तधार्मिकः ॥३१॥ ४/७०३ आसराजविहारे च, पित्तलामयमुच्चकैः ।
असौ चकार समव-सरणं कारणं श्रियः ॥ ३२॥ ४/७०४ वसतीरिह चारित्र - प्रतिष्ठानवतीरयम् । पञ्च प्रपञ्चयामास, भवाम्भोधी तरीरिव ॥ ३३॥ ४/७०५ सङ्ख्ये शङ्खमहीपते: समपतन् ये भूणपालादयो, वीरा विक्रमवृत्तिनिर्मलकथावाचालितोर्वीतलाः । तत्तन्नामनिरूपणानि स महीतीरे महीयान् दश,
स्थाणोर्देवकुलानि दुर्जनकुल श्रीबन्द (न्दि) कारोऽकरोत् ||३४|| ४/७१० स्वगोत्रदेवतायाः श्री-चण्डिकायास्तथाऽम्बुधेः ।
ज[ग]त्यामेतदीयायां, स देवकुलिके व्यधात् ॥३५॥ शङ्खम(न) कृतपूर्वी स:, आसराजसुतो रणम् । तत्पुरः कारयामास, चतु:स्तम्भेस (षु) तोरणम् ॥३६॥ तपोधनमहं चैतत्, प्रतिबद्धमकारयत् । प्रभूतमेतदायं च नानाविधमकारयत् ॥३७॥