SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ जून - २०१७ तथा शत्रुञ्जयाख्ये च, सदने प्रथमार्हतः । श्रीनेमि-पार्श्वजिनयोः, स देवकुलिके व्यधात् ॥१२॥ ४/६८३ प्राग्वाटवंशोद्भवकृष्णदेव-राणूतनूसम्भवयोः स्वपत्न्योः । श्रेयोभिवृद्ध्यै मथुराभिधाने, जिनालये सत्यपुराभिधे च ॥१२॥ ४/६८४ बलानकं च त्रिकमण्डपौ च, पुरः प्रतोली परितो वरण्डम् । मठं तथाऽद्वयमट्टषट्कं, क्रमेण मन्त्री रचयाञ्चकार ॥१३॥ [युग्मम्] ४/६८५ क्षपणार्हद्वसहिका-मेकामेकां च तत्प्रिया । तथोद्दधार ललिता-देवीकान्तः स कान्तधीः ॥१४॥ ४/६८६ तथाऽसो(सौ) वीरनाथस्य, रथशालामकारयत् । मठमट्टद्वयं चैत-दायदानाय निर्ममे ॥१५॥ ४/६८७ गुहायामिव पूर्वाद्रे-श्चन्द्रं विश्वतमोपहम् । तत्रैव रथशालायां, नेमिनाथमकारयत् ॥१॥ ४/६८८ इतश्च पल्लीवालाख्य-वंशे शोभनदेवभूः । अभूदजयसिंहाख्यो, भण्डशाली महामनाः ॥१७॥ ४/६८९ सङ्ग्रामसिंहसङ्ग्राम-व्यसनोपशमाय स । स्वमौलिं वस्तुपालार्थे, ढुण्ढदेवबलिं व्यधात् ॥१८॥ ४/६९० तन्मूर्ति(त्ति) रोघडीचैत्ये, कृतज्ञोऽयमकारयत् । तच्छ्रेयसे च जैनेन्द्र-बिम्बमेकमतिष्ठिपत् ॥१९॥ ४/६९१ रोघडीचैत्यदेवेन्दो-रादिनाथजिनेशितुः । शाकमण्डपिकामाय-दाने कल्पयति स्म सः ॥२०॥ ४/६९२ तथा ब्रह्माणगच्छीय-नेमिनाथजिनालये । जिनेन्दोरादिनाथस्य, स देवकुलिकां व्यधात् ॥२१॥ ४/६९३ तथा सण्डेरगच्छीय-मल्लिनाथजिनालये । प्रियासौख्यलताश्रेयः-कृते सीमन्धरप्रभोः ॥२२॥ ४/६९४ उदारमण्डपां देव-कुलिकामयमातनोन्(त्) । युगन्धरं च बाहुं च, स(सु)बाहुं च जिनाधिपम् ॥२३॥ [युग्मम्] ४/६९५ भावडाचार्यगच्छीयः, समुद्दधेऽमुना तथा । जिनत्रयाख्यः प्रासादः, श्रीमत्पार्श्वजिनेश(शि)तुः ॥२४॥ ४/६९६
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy