SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७२ तत्रैव पत्तने जैत्र-सिंहोऽयमतिपुष्करम् । मण्डलं पेटलार्यायाः, पद्रदेव्याः पुरोऽकरोत् ॥३॥ मन्त्री मसूयडग्राम-गम्भीराग्रामचैत्ययोः । वस्तुपालस्तु नाभेय-वामेयौ न्यस्तवान् जिनौ ॥४॥ स्वस्यैष ललितादेव्याः(व्या), अपि पुण्याभिवृद्धये । जयादित्यं नगरके, रत्नादेवीमकारयत् ॥५॥ ॥ इति पेटलापदाधिकारोऽष्टमः ॥ स्तम्भतीर्थपुरे वस्तु-पालो मन्त्रिपुरन्दरः । कीर्तने शालिगस्योच्च-रुद्दधे गूढमण्डपम् ॥१॥ ४/६७३ तत्र गर्भगृहद्वार-श्रियो लीलासरोरुहम् । स्वस्याऽप्यवरजस्याऽप्य(पि), स तेने मूर्त्तिखत्तकम् ॥२॥ ४/६७४ गौ(गु)र्जरान्वयिनो लक्ष्मी-धरस्य सुकृताय सः । तस्यैव परिधावष्टा-पदोद्धारमकारयत् ॥३॥ ४/६७५ पुण्यायाऽम्बडदेवस्य, वैरिसिंहाभिधस्य च । तत्पक्ष-चैत्ययोः सोऽर्हद्विम्बे पृथग्(ग)तिष्ठिपत् ॥४॥ ४/६७६ तथौ(थो)सिवालगच्छीय-पार्श्वनाथजिनालये । स्वस्याऽपि स्वाङ्गजस्याऽपि, मूर्ती कारयति स्म सः ॥५॥ ४/६७७ श्रेयांसमात्माग्रजपुण्यहेतोः, स्वपुण्यहेतोश्च युगादिदेवम् । स्वकान्तयोः पुण्यकृते च नाभि-सिद्धार्थजावेष जिनावकार्षीत् ॥६॥ ४/६७८ सैव मोक्षपुरद्वार-तोरणस्तम्भसन्निभौ । तद्गूढमण्डपे कायो-त्सर्गिणौ विदधे जिनौ ||७|| ४/६७९ थारापद्रकगच्छीय-शान्तिनाथजिनालये । बलानकं त्रिकं गूढ-मण्डपं प्रोद्दधार सः ॥८॥ तत्रैव केलिकाख्यायाः, पुण्यहेतोः पितृष्वसुः । पितृव्यस्यैष तिहुण-पालस्य सुकृताय च ॥९॥ ४/६८१ स्वश्रेयसे च क्रमतः, श(स)म्भवं नाभिनन्दनम् । शारदां पट्टशालायां, कारितायामतिष्ठिपत् ॥२०॥ [युग्मम्] ४/६८२
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy