SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ जून - २०१७ ५३ दर्भोर्वीनगरे वैद्य-नाथावा(व)सथमण्डपे । वस्तुपालो व्यधात् स्वर्ण-कुम्भानेकोनविंशतिम् ॥१॥ ३/३७१ स्वेश-तत्प्रियतमा-स्वकनिष्ठ-ज्येष्ठमूर्ति-निजमूर्तिसनाथम् । वैद्यनाथहरगर्भगृहाग्रै(ग्रे), वामतो व्यधित खत्तकमेषः ॥२॥ ३/३७२ नव स्वर्णमयांस्तत्र, खत्तके कलशानयम् । नवखण्डधरोद्योति(तेऽ)-करोत्प्रद्योतनानिव ॥३॥ ३/३७३ पश्चिमोत्तरयोवैद्य-शाल(ली)यद्वारयोरयम् । प्रशस्ती न्यस्तवानात्म-कीर्तिमङ्गलपाठ(ठि)के ॥४॥ ३/३७४ उत्तरद्वारपुरतो, वैद्यनाथस्य वेश्मनः । असूत्रयदसौ तुझं, तोरणं विशदाश्मभिः ॥५॥ ३/३७६ वृषमण्डपिकां द्विभूमिकां, विशदैरश्मभिरस्य बान्धवः । इह काञ्चनकुम्भशोभितां, पुरतो वैद्यपतेः प्रतेनिवान् ॥६॥ तथाऽसौ निजनाथस्य, कालक्षेत्र(?) तदाख्यया । रेवोरि(रु)सङ्गमो(मे) वीरो(रे)-श्वरदेवकुलं व्यधात् ॥७॥ ॥ इति दर्भावत्यधिकारः षष्ठः ॥ स्तम्भनके च शलाका-मुदधे पार्श्वनाथभवनस्य । दण्डकलशौ च काञ्चन-मयौ व्यधाद्वस्तुपालोऽत्र ॥१॥ नाभेय-शैवेयजिनेशखत्तके, सद्वारपत्रं च सिताश्मसुन्दरम् । तत्र प्रशस्ति च गिरिं च देवता-मकारयत् कारयितव्यकोविदः ॥२॥ साधितोभयलोकाप्त-जन्मनोरयमात्मनः । कीर्योर्दोलानिभं तत्र, तोरणद्वयमातनोत् ॥३॥ पुरे स्तम्भनके तस्मि-न्नेकां वापीमपापधीः । द्वे प्रपे त्रीनयं शालान्, विशालान् परितो व्यधात् ॥४॥ ॥ इति स्तम्भनाधिकारः सप्तमः ॥ वस्तुपालस्ततो जैत्रः, पेटलापद्रपत्तने । दिगम्बरजिनागारे, धनपालेन कारिते ॥१॥ मातामहस्य सुकृतौ(त)-कृते कान्हडमन्त्रिणः । मूलनायकमर्हन्तं, नेमिनाथं न्यवीविशत् ॥२॥ [युग्मम्]
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy