SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७२ तत्र चन्द्रप्रभस्वामि-सदनस्याऽन्तिकेऽमना । चतुर्विंशतितीर्थेश-प्रासादोऽष्टापदः कृतः ॥९॥ ६/५३७ पौषधशालामौषधि-पतिमूर्त्तिमिवोज्ज्वलां सुधासारैः । जनतापापहरामिय-मकृत कृती तत्र नभसीव ॥१०॥ ६/५३८ अष्टापदस्य पौषध-शालाया अपि च तत्र सचिवोऽयम् । आयार्थमट्टमालां, गृहमालां च व्यधापयत् ॥११॥ ॥ इति देवकपत्तनीयाधिकारश्चतुर्थः ॥ मन्त्री भृगुपुरे वस्तु-पालो वस्तुविचारवित् । शकुनीविहारकरिणा, भेत्तुमात्मभवाग्र(ग)लाम् ॥१॥ ४/१५७ तन्मुखे देवकुलिका-द्वयं दन्तद्वयोपमम् । आरादारासनीयाश्म-मयं स्फारमकारयत् ॥२॥ ४/१५८ [युग्मम्] तदगढमण्डपेऽजित-शान्त्याख्यं परिकरस्थशेषजिनम् । ललितादेव्याः स्वस्य च, सुकृताय चकार जिनयुगलम् ॥३॥ ४/१५९ तद्गूढमण्डपक्रोडे, विशतां दक्षिणे सताम् । स्वमूर्ति कारयामास, ललिबां(ता)कलितां(ता)मयम् ॥४॥ ४/१६० पित्तलानिर्मितां स्नात्र-प्रतिमां सुव्रतप्रभोः । लेपमूर्तेरलेपात्मा, तेजपालोऽत्र तेनिवान् ॥५॥ ४/१६१ तत्र स्नात्रप्रतिमा-पृष्ठे पुरतश्च सुव्रतजिनेन्दोः ।। मूर्तिमकारयदनुपम-देव्याः स्वस्याऽपि सुकृती सः ॥६॥ तत्राऽश्वबोधतीर्थे, परितस्तीर्थेशदेवकुलिकानाम् । दण्डांश्च पञ्चविंशति-मकारयत् काञ्चनाते(ने)षः ॥७॥ ४/१६२ पुराद् बहिरसौ पुष्प-वनं तलतमालवत् । चक्रे जिनार्चनविधा-वनन्ते(न्त)लतमालवत् ॥८॥ ४/१६३ वडऊसणपल्लीस्थित-चैत्ययोर्मूलनायकौ । नाभेय-नेमिनौ वस्तु-पालस्तु समतिष्ठ(ष्ठि)पत् ॥९॥ ४/१६४ ॥ इति भृगुकच्छाधिकारः पञ्चमः ॥
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy