________________
जून - २०१७
.
स्वपुरी-वामनपुरीप्रान्तरे खातदुस्तरे । व्यधाद्वापी प्रधानापी, मल्लदेवानुजानुजः ॥२८॥ ६/७४२ वसतिं वामनस्थल्यां, कौमुदं तन्वन्ती(ती)मयम् ।। सदा यामवतीं चन्द्रो-दयचारुमकारयत् ॥२९॥ ६/७४३ श्रीवीरधवल-जयतल-देव्यो मनोज्जयन्तमार्गेऽसौ । हर-जिनगृह-सत्र-सरः-प्रपा इंधुमधुरे पुरे तेने ॥३०॥ वस्त्रापथे च प्रथमे-शस्य मन्दिरमुत्तमम् । विशालं कालमेघस्य, मण्डपं च व्यपञ्चयत् ॥३१॥ ग्रामः कुहेडीति क्ष(क्षि)तौरुसंस्थाः, प्रस्थाश्च पञ्चाशदिहोर्वरायाः । चक्रेऽमुना स्थानतपोधनस्य, वस्त्रापथे सङ्घकराभिमुक्तौ ॥३२॥
॥ इति श्रीरैवताधिकारस्तृतीयः ॥ श्रीदेवपत्तनपुरे, श्रीसोमेशमहेश(शि)तुः ।, जगत्यां श्रेयसे भर्तुः, श्रीवीरधवलेश्वरम् ॥१॥ जयतल्लेश्वरं चैतन्महिष्याः पुण्यहेतवे । सचिवो रचयामास, वस्तुपालः सविस्तरम् ।।२।। [युग्मम्] एतयोर्मूर्तियुगली-मयमारासनाश्मना । चक्रे श्रीसोमनाथस्य, रङ्गमण्डपखत्तके ॥३॥ स्वस्वामिसुकृताय श्री-सोमनाथमहेश(शि)तुः । माणिक्यखचितां मुण्ड-मालामयमकारयत् ॥४॥ स्नात्रकुण्डी विभोस्तत्र, कलधौतविभासिताम् । शीर्णां समुद्दधाराऽसौ, चन्द्रमूर्तिमिवाऽर्यमा ॥५॥ द्विस(श)त्या सचतुःषष्ट्या, स्वर्णगद्याणकैरसौ । तत्रोमाभरणं सौक्ष्य(ख्य)-लतापुण्यकृतेऽकृता(त) ॥६॥ सोमनाथपुरतो निजकीर्त्याः, क्रीडपर्वतनिभं करियुग्मम् । तुङ्गमश्ममयमत्र वितेने, तेजः(ज)पालसचिवस्तु सुवस्तु ॥७॥ सोमनाथविभोलिङ्ग-मन्दरं परितोऽमुना । चतुःकाष्टी विधायाऽत्र, विधाताऽपि व्यजीयत ॥८॥