SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७२ ........... ]बभौऽमुना मण्डपिकासमेतः ॥१७॥ पांपा-मठस्य सविधे विदधे जिनानां, तिस्रः स देवकुलिकाः कुलकैरवेन्दुः । वाग्देवताप्रतिमया सहिताः प्रशस्तियुक्ता युताश्च निजपूर्वजमूर्तियुग्मैः ॥१८॥ श्रीनेमिमण्डपे तुङ्गे, कुले च विपुले निजे । कल्याणकलशं दिष्ट्या, स धीमानध्यरोपयत् ॥१९॥ ६/७२३ अम्बिकायाश्च सदने, मण्डपोऽनेन कारितः । आरासनी आ(चा)हदेव-कुलिका चाऽत्र सूत्रिता ॥२०॥ ६/७२४ अम्बिकायाः परिकर-श्चारुश्चाऽऽरासनाश्मना । विशदि(दे)न निजेनैव, यशसाऽनेन कारितः ॥२१॥ ६/७२५ अवलोकन-श(शा)म्ब-प्रद्युम्नप्रस्थेषु विशदपाषाणैः । विधित(विहितं) जिनदेवकुलिका-त्रितयं पुरुषमूर्तियुतम् ॥२२॥ पित्रोः स्वीयपितुर्जगद्विद(दि)तयोः श्रीसोमसीताक्ष(ख्य)योराशाराज-कुमारदेव्यभिधोस्ताताम्बयोरात्मनः । जाल्ह(जाल्हू)नामजुषः स्वसुर्वसुमतीक्रोडे तदङ्गान्यधःक्षिप्त्वा रैवतदेवताऽऽलयपुरः स्तम्भानयं निर्ममे ॥२३॥ अधस्तादुज्जयन्तस्य, तेजःपालप(पु)रं नवम् । हट्ट-[ह]H-प्रपा-वापी-सद्धेशगृहशोभितम् ॥२४॥ ६/७३६ तेजःपालाभिधस्तस्या-ऽवरजो विरजस्तमाः । अमायः सङ्घवासाय, धुःप्र(प्रा)कारमकारयत् ॥२५॥ [युग्मम्] आशाराजविहारसञ्ज(ज्ज्ञि)तमसौ श्रीपार्श्वचैत्यं पितुः, श्रेयो) वसतिं च पुष्कलतरामस्याऽन्तरा तेनिवान् । तद्बाह्ये च कुमारदेविसर अ(इ)त्युल्लोलकल्लोलमत्, मातुः पुण्यकृते कृती विरचयाञ्चके विशालं सरः ॥२६॥ ६/७३९ श्रीपार्श्वनाथपूजार्थ-मुद्यानमतिकोमलम् । असूत्रयदसौ तत्र-मुद्यानमतिकोमलम् ॥२७॥ ६/७४१
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy