SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ जून - २०१७ ४२ निजपूर्वजयोश्चण्डप-चण्डप्रसादयोः स सुकृताय ।। तत्कमलीभित्तियुगे-ऽतिष्ठिपदजितं च वासुपूज्यं च ॥३॥ ६/७०३ तन्मण्डपे चण्डपसञ्जितस्य, महत्प्रमाणां प्रपितामहस्य । मूर्ति तथा वीरजिनेन्द्रबिम्ब-मथाऽम्बिकामूर्त्तिमिमामकार्षीत् ॥४॥ तत्र गर्भगृहद्वारे, दक्ष(क्षि)णोत्तरपक्षयोः । स्व( स्वं) च स्वमनुजं चैषा(ष), गजारूढमतिष्ठिपत् ॥५॥ ललितादेवीश्रेयः-कृते च तस्यैष पक्षके वामे । पूर्वजमूर्तिसमेतं, सम्मेतं कारयामास ॥६॥ ६/७०६ ललितादेव्याः स्वस्य च, मूर्ती तत्र महोन्नतै(ते) । रोहिणीचन्द्रनिस्तन्द्र-रुचिः सोऽयमचीकरत् ॥७॥ सौख्यलतासुकृताया-ऽष्टापदमथ तस्य दक्ष(क्षि)णे पक्षे । निजजननी-निजभगिनी-मूर्तियुगं निर्ममे चैष(:) ॥८॥ ६/७०७ स्वस्य सौख्यलतायाश्च, मूर्तीवर्णसमुज्ज्वले । प्रशस्तिपट्टके चाऽत्र, चक्रे सुश्लोकपेशले ॥९॥ प्रासादत्रितयस्याऽस्य, जगत्रितयचित्रकृत् । तोरणत्रितयं चक्रे, स विद्यात्रितयाश्रया(यः) ॥१०॥ ६/७०८ वस्तुपालविहारस्य, पृष्ठेऽनुचरसम्भवम् । कपर्द(दि)यक्षाऽऽयतन-मकारयदयं कृती ॥११॥ ६/७०९ मातुर्युगादिदेवस्य, मरुदेव्या निकेतनम् । गजस्थमूर्ति तत्रैव, मातुर्गर्भे सि(स) तेनिवान् ॥१२॥ ६/७१० तोरणत्रयमातेने, तेनेन्दुविशदाश्मभिः । त्रिद्वारमण्डपद्वार-गतं श्रीनेमिवेश्मनि ॥१३।। ६/७१२ त्रिकेऽसौ नेमिचैत्यस्य, दक्ष(क्षिणोत्तरपक्षयोः । पितुः पितामहस्याऽपि, मूर्ती वाजिस्थिते व्यधात् ॥१४॥ ६/७१३ तयोरयं पित्र(तृ)पिता-महमूर्योः समीपगे । साम्बा-पितामहीमूर्ती(र्तिः), विदधे विशदाश्मना ॥१५॥ स्वपित्रोः श्रेयसे च, श्रीनेमिचैत्यत्रिका[वनौ । स कायोत्सर्गिणौ चक्रे-ऽजित-शान्तिजिनेश्वरौ ॥१६॥ ६/७१४
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy