SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४८ अनुसन्धान- ७२ रवि- शङ्कर- सावित्री-वीरजिना - ऽम्बा- कपर्दिया ( क्षाणाम् । धामानि धार्मिकोऽसौ, चक्रे ललितासरः सेतौ ॥ ४२ ॥ ६ / ६८५ गुरुमूर्त्या प्रशस्त्या, सनाथामक्षरात्मना । स वाग्भटपुरस्याऽन्तः, कुट्टिमां वसतिं व्यधात् ॥४३॥ तद्बहिस्तु प्रपां चक्रे, पयोधरघटोद्भटाम् । धात्रीमिवाऽऽत्मजस्याऽयं यशसो वृद्धिहेतवे ॥४४॥ वस्तुपालगिरिसञ्ज्ञितामसा - म (व) श्मबद्धपृथ (थु) कूपबन्धुराम् । आदिनाथजिनपूजनार्थमा-सूत्रयुक्त (यत्) [कु] सुमवाटिकामिह ॥ ४५ ॥ शत्रुञ्जयमहातीर्थ - घण्टापथविभूषणम् । वलभ्यामुद्दधाराऽसौ युगादिजिनमन्दिरम् ||१६|| ६ / ६८७ कूपं तत्र सुधाकुण्ड - रूपं चिद्रूपचन्द्रमाः । प्रपां च जन्यपञ्चाभ(पाञ्चजन्याभ ) - कीर्त्तिः कारितवानयम् ॥१७॥ वटकूपकमण्डपिका-स्थितकेन समं चकार सचिवोऽयम् । शत्रुञ्जयसाद् ग्रामं, वालाके भण्डपद्राख्यम् ॥४८॥ वालार्के (के)ऽर्कपालितकं, वीरेज्यं चतुरुत्तरे । शत्रुञ्जयत्रा कृतवा - नयं ग्रामद्वयं तथा ॥४९॥ वस्तुपालविहारं स वस्तुपालेश्वरं तथा । प्रपा - सत्रे च विदधे, ग्रामे वीरेज्यनामनि ॥५०॥ ६/६९० धर्मार्थं जनकस्य जैनभवनं पुण्याय मातुः प्रपां पित्रोः पुण्यसमृद्धिहेतुकमथो सत्रं पवित्राऽऽशयः । स्वश्रेयः कृतये सरः पुरभिदा (दो) देवस्य हर्म्यं तथा, पान्थारामकुटीमथाऽयमकृत ग्रामेऽर्कपालीयके ॥ ५१ ॥ ॥ इति शत्रुञ्जयाधिकारो द्वितीयः ॥ रैवताचलचूलायां पृष्ठे श्रीनेमिवेश्मनः । शत्रुञ्जयपतेश्चैत्य-मात्मश्रेयोऽभिवृद्धये ॥१॥ ६ / ६९९ मन्त्रिवास्तोस्पतिर्वस्तु-पालो विध्वस्तकन्मुखं (कल्मषम्) । वस्तुपालविहाराख्य-मकार्षीदेष कीर्तनम् ॥२॥ [ युग्मम् ] ६ / ७००
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy