________________
जून - २०१७
४७
तत्रेन्द्रमण्डपासन्नं, तेजःपालोऽस्य चाऽनुजः । कीर्तनं विदधे कीर्त्ति-नन्दी नन्दीश्वराभिध:(धम्) ॥३२॥ ६/६७२ स्वसोदरीणां सप्ताना-मपि पुण्याभिवृद्धये । कुलीनो देवकुलिका-स्तदुपान्ते विनिर्ममे ॥३२॥ कान्तयोर्मल्लदेवस्य, लीलू-पातूसमाख्ययोः । तत्पुत्र-पौत्रयोः पूर्ण-सिंह-पेथडसञ्जयोः ॥३३॥ श्रेयसे देवकुलिका-श्चतस्रस्तत्र कारिताः । तिस्रश्चाऽपि यशोराजः(ज)-श्रेष्ठिनः सुहृदोऽमुना ॥३४॥[युग्मम्] अनुपममतिरयमनुपम-देव्याः स्वस्याऽपि पुरुषमानेन । आरासनीयमस्मिन्, मूर्तियुगं कारयामासे ॥३५॥ ६/६७६ व्यधादनुपमाप्रिया-ऽनुपमपुण्यसंसिद्धये, सुधीरनुपमासरस्तदुपकण्ठकुञ्जान्तरे । । तटेऽस्य जिनपूजनव्यतिकराय किञ्च धुसद्वनाभिनयनाटिकामकृत वाटिकामप्यसौ ॥३६।। ६/६७७ सरःक्षीरार्णवस्याऽस्य, तीरे तत्रैव तेनिवान् । वेलाशैलौ कपर्यम्बा-देवतालयकैतवात् ॥३७॥ पद्याबन्धमसौ तत्र, तडागतिलकोपरि । कपर्दियक्ष्य(क्षं) शैलश्री-सीमन्ततिलकं व्यधात् ॥३८॥ ६/६७९ शैलेऽमुत्र कपर्दियक्षभवनं श्रीवस्तुपालः पुनः, पूर्वं जर्जरमुद्दधार विदधे चाऽस्याऽग्रतस्तोरणम् । किं चैतत्परिधौ चकार जगतीमारासनीयं(यां) व्यधाद्द्वारं गर्भगृहस्य खत्तकमिहाऽऽतेने च पार्श्वप्रभोः ॥३९॥ ६/६८० अस्ति श्रीवाग्भटपुरं, शत्रुञ्जयगिरेरधः । तत्र सङ्घतृषावारि, न वारि समभूत् पुरा ॥४०॥ मत्वैतत्पुरतः पुरोऽस्ति(पुरस्य) ललितादेवि(वी)प्रियाश्रेयसे, चक्रेऽसौ ललितासरोऽतिविमलं श्रीवस्तुपालः कृती । स्फारद्वार(रि)विराजितस्य कुरुते क्रौञ्चालयस्य भ्रमं, भूम्ना तोरणमात्तमानसरुचेर्यस्य प्रवेशावनौ ॥४१॥ ६/६८४