________________
४६
अनुसन्धान-७२
द्वारि युगादिजिनेन्दो - स्तोरणमारासनीयमतिविशदम् । व्यरचयदयमिह सुमहत्, पद्यामिव शिवपदारोहे ||१७|| ६ / ६५५ अभितोरणमुत्तुङ्ग-मत्तवारणमण्डिताम् ।
जगतीं रचयाञ्चक्रे, सेनामिव निजामयम् ॥१८॥ ६ / ६५९ तत्राऽऽदिनाथस्य पुरः प्रशस्ति - चतुष्किकायुग्ममसावकार्षीत् । विलोकयन्त्या इव तोरणं तच्चैत्यश्रियो नेत्रयुगं विकासि ||१९|| ६ / ६६० तत्राऽऽदिनाथधाम्नो, बलानकान् मण्डपे सतां विशाम् ।
दक्षिणपक्षे ललिता-देव्याः पुण्याय निजसधर्मिण्या (ण्याः) ॥२०॥ ६/६६१ सत्यपुराह्वं तीर्थं श्रीवीरसनाथमकृत सुकृती सः । स्व-स्ववधूमूर्ति श्री-ब्राह्मी- श्रीब्रह्मशान्तियुतम् ॥२१॥ ६ / ६६२ [युग्मम्] तत्रैव वामपक्षे, सौख्यलतानामधेयधन्यायाः । अपरस्याः प्रेयस्याः, श्रेयोऽर्थमनर्थदलनसहम् ॥२२॥ ६/६६३ अश्वावबोधतीर्थं, मुनिसुव्रततीर्थनायकसनाथम् । समवसरणा-ऽश्व-शकुनी - वटमुनियुग- मृगयुमूर्तियुतम् ||२३|| ६/६६४ जितशत्रु - श(शि) लामेघ-क्षितिपति वणिजां सुदर्शनादेव्याः । स्वस्य च सौख्यलतायाः सह मूर्त्तिभिरातनोदेषः ॥२४॥
[त्रिभिर्विशेषकम् ] ६ / ६६५
उभयोरपि कीर्तनयो-रनयोः पुरतः प्रशस्तिमतिशस्ताम् । उपरि च हेमदण्डं, कलशं च कलाशयो विदधे ॥२५॥ तत्पुरतः प्रपितामह - चण्डप - चण्डप्रसादपुण्याय । विजय सोऽजित - सम्भव - जिनयुगलं कारयामास ||२६|| ६ / ६६६ ललितादेव्याः स्वस्य च, मूर्त्योस्तत्रैव मण्डपे मन्त्री | देवकुलिकामकारय-दुदङ्मुखीं स्फाटिकद्वाराम् ||२७|| ६/६६७ चतस्रश्च चतस्रश्च, दक्ष (क्षि) णोत्तरपक्षयोः । अकारयि(य)दसावादि-जिनचैत्ये चतुष्किकाः ॥२८॥ ६ / ६६८ नाऽभूदे (द्दे) वकुलस्य, प्रमाणतः पूर्वमेष इति है । नाभेयचैत्यमू(मौ)ला-वकारयत् कलशमिह किल सः ॥२९॥
युगादिदेवायतनेऽत्र कुम्भ-त्रयं त्रयाणामपि मण्डपानाम् । प्रतापसिंहाधिप(भिध)पौत्रपुण्य-कृते कृतं स्वर्णमयं कृती सः ||३०|| ६/६७०