SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ जून - २०१७ ४५ शत्रुञ्जयगिरौ पूर्व-मिन्द्रमण्डपसज्ञितम् । असौ कलितिरस्कारं, कारयामास कीर्तनम् ॥३॥ ६/६३६ तत्राऽम्बका-ऽवलोकन-शाम्ब-प्रद्युम्नसानुभिः । सह रैवततीर्थेन्दो-रसौ चैत्यमसूत्रयत् ॥४॥ ६/६३७ स्तम्भनकतीर्थनायक-चैत्ये तत्रैव कारितेऽकार्षीत् । निजनायक-निजदयिता-निजगुरु-निजबन्धु-निजमूर्तीः ॥५॥ ६/६३८ तत्राऽन्वितं श्रीजयतल्लदेव्याः(व्या), श्रीवीरभूपालमसौ निजेशम् । शचीसखं शक्रमिव द्विपेन्द्रा-धिरूढमूर्ति रचयाञ्चकार ॥६॥ ६/६३९ आत्मानमात्मानुजमप्यजस्रं, विश्राणितश्रीविदुषामिहाऽसौ। आरासनीयाश्ममयाश्वपृष्ठ-प्रतिष्ठमूर्ति घटयाञ्चकार ॥७॥ ६/६४० तत्रैव मन्त्रिसुत्रामा, स कायोत्सर्गिणौ जिनौ । उर्ध्वंदमौ जगद्रक्षा-यामिकाविव निर्ममे ||८|| ६/६४१ तत्रैव मण्डपे सप्ता-र्हदेवकुलिकानिभान् । सप्ताऽपि दुर्गतीर्जित्वा, जयस्तम्भानरोपयत् ॥९॥ ६/६४४ तत्र श्रीशारदां वाच्य-दिव्यरूपद्वयीमसौ । शस्तां प्रशस्तिमूर्तिभ्यां, स्वहदीव न्यवीविशत् ॥१०॥ प्रत्यग्द्वारगतं चन्द्र-कलासितसि(शि)लाशतैः । तत्रेन्द्रमण्डपे मन्त्री, तोरणं स व्यरीरचत् ॥११॥ ६/६४५ तत्राऽऽदिनाथतीर्थेन्दो-रसौ चैत्यपुरोभुवि । प्रतोलीं कारयाञ्चक्रे, सह प्राकारवा(बा)हया ॥१२॥ ६/६४९ मुधाकृतसुधाकुण्डं, कुण्डं गजपदाभिधम् । सूत्रयामास मन्त्रीन्दु(न्द्र)-स्तत्र स्नात्रकृतेऽर्हताम् ॥१३॥ ६/६५० स्वज्येष्ठयोलूँणिग-मल्लदेवयो-मूर्ती पृथग्मण्डपिका-हय-स्थिते । स कारयामास युगादिदेवता-गृहप्रवेशाध्वनि वामदक्ष(क्षि)णे ॥१४॥ ६/६५४ स वामतो दक्ष(क्षि)णतस्तथैतयोः, प्रत्येकमेवाऽमितपुण्यहेतवे । सङ्घाधिनाथस्य समाजमण्डपं, प्रशस्तिमद्वास्तु च वस्तुमातनोत् ॥१५॥ तदङ्गानि निधायाऽधः, स्तम्भे तीर्थेश(शि)तुः पुरः । असौ श्रीमल्लदेवस्य, मूर्ति स्थापितवानिह ॥१६।।
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy