SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४४ अनुसन्धान-७२ प्राग्वाटान्वयभूस्तथाऽजनि पुरा सामन्तनामा पुमांस्तद्भः शान्तिरिति प्रशान्तचरितोऽस्माद् ब्रह्मनागः सुतः । तत्पुत्रोऽभवदामदत्त इति तद्भू (र्ना)गडोऽभूत् ततो, दण्डेशः समभूत् प्रभूतधिषणासम्भूतिराभूरिति ॥१०॥ धनपाल-पूर्णपालौ, महिपालस्तस्य सूनवोऽभूवन् । लक्ष्मीकुक्षेः पुत्री, कुमारदेवीति च ख्याता ॥११॥ सोमसूनोर्बुधस्येव, बुद्धिर्विश्वैकपावि(व)नि(नी) । आसराजस्य तस्याऽसा-वजायत सधमिणी ॥१२।। कुमारदेव्यामेतस्य, चत्वारः सूनवोऽभवन् । कलौ धर्मनृपस्याऽङ्ग-रक्षका इव ये बभुः ॥१३॥ आद्यस्तेषामशेषाघ-लवनो लूणिकाभिधः । प्रतिकूलः कलेर्मल्ल-देवोऽभूदपरः पुनः ॥१४॥ श्रीवस्तुपाल इति पौरुषवेश्म तेजः-पालश्च शुद्धमतिधाम तृतीय-तुर्यो । तौ मन्त्रितामलभतां चतुरौ चुल(लु)क्य-वीरस्य वीरधवलस्य धरामघोनः ।।१५।। जाल-मायू-सायू-धनदेवी-सोहगा-वयजूकाऽऽखाः(ख्याः) । पद्मलदेवी चैषां, क्रमान्दिमाः सप्त सोदर्यः ॥१६॥ लीलू-पातू उभे कान्ते, मल्लदेवस्य मन्त्रिणः । लीलूभवः सुतः पूर्ण-सिंहस्तद्भश्च पेथडः ॥१७॥ दयिते ललितादेवी-सूखलते वस्तुपालसचिवस्य । ललितादेव्या जात-स्तनयस्तु जयन्तसिंहाख्यः ॥१८॥ तेजःपालस्य धाम्नाऽपि, नाम्ना त्वनुपमा प्रिया । अपत्ये बकुलदेवी-लूणसिंहावजीजनत् ॥१९॥ वंश एष रघुवंश इवाऽस्मिन्, भूतले स्तुतिपदं न किमस्तु । यत्र साम्प्रतमिमौ सचिवेन्द्रौ, रामलक्ष्मणनिभौ विजयेते ॥२०॥ ॥ इति वंशाधिकारः प्रथमः ॥ विक्रमनृपकालाद् द्वा-शतमितसमयचूलिकाभूतान्(त्) । सप्ताधिकसप्ततिका-दारभ्य चुल(लुक्यनृपसभ्यः ॥१॥ पुरनगरग्रामादिषु, धर्मस्थानानि धार्मिकः श्रीमान् । वस्तूनि वस्तुपालो, विविधानि विधापयामास ॥२॥ युग्मम् ॥
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy