________________
श्रीबालचन्द्रसूरिरचिता श्रीवस्तुपालप्रशस्तिः
॥०॥ श्रीरैवतावले श्रीवस्तुपालावतारितश्रीशत्रुञ्जयप्रासादे वामभागे प्रविशतां पट्टिकाषट्कप्रशस्तिकाव्यानि यथा
लक्ष्मीताण्डवमण्डपे हृदि सदा विश्वोपकारिव्रतं, बिभ्राणः किल शैशवेऽपि कलयन् गोपीवरत्वं विभुः । प्रत्युद्यु(द्य)त्समितौ जिगाय नरकं योऽरिष्टनेमिर्जगद्, विख्यातः स निरस्तदुर्द(ध)रतमा देवो मुदे वो जिनः ॥१॥ पाथोनाथ इवाऽच्युतस्थितिवशो वंशोऽस्ति गम्भीरतापात्रं प्राप्तसरस्वतीपरिचयः प्राग्वाट इत्याह्वयात् ।। दत्वा रत्नकदम्बकानि सुमनःप्रीति समातन्वती, येनाऽशोभि यशोभिरम्बरतलं द(डि)ण्डीरपिण्डैरिव ॥२॥ तत्राऽजनिष्ट चण्डप-इति गुणसङ्गीतमण्डपः श्रीमान् । निजकुलदेवकुलं यो, जिनदैवतमावृणोति स्म ॥३॥ निजकुलकीतिस्तम्भः, समभूच्चण्डप्रसाद इति तस्मात् । समजनि यत्र जयश्रीः, सर्मिणी शालभञ्जीव ॥४॥ पुरुषोत्तमस्य तस्या-ऽजनिषातां सौर-सोमनामानौ । पुत्रावनुकृतनेत्रा-वतिमात्रालोकनिष्णातौ ॥५॥ सोमस्य च रामस्य च, निच्छद्मगुणस्य नाऽन्तरं विद्मः । कुशलवपुषोऽङ्कपाली(ली), समवाप्यत सीतया यस्य ॥६॥ विधेर्वेधा इवाऽमुष्य, त्रयोऽभूवंस्तनुभूवः । केलीति नन्दिनी चैका, शारदेव विशारदा ॥७॥ तेषु मुख्योऽश्वराजाख्यो, मध्यो विजयराभिधः । लघुस्तिहुणपालाह्व-स्त्रयीवेयं त्रयी बभौ ॥८॥ ब्रूमः किमश्वराजस्य, पित्रोभक्तिकृतोऽधिकम् । कथायां न धिनोत्येव, श्रवणः श्रवणद्वयम् ॥९॥