________________
जून - २०१७
५७
तथा भीमेश्वरशिवायतने स वितेनिवान् । शातकुम्भमये कुम्भ-दण्ड(ण्डे) चण्डांशुरोचिषा ॥३८॥ तद्गर्भगेहे स्वकुल-देवतां चण्डिकामसौ । मूर्ती स्वस्याऽनुजस्याऽपि, खत्तकान्तरकारयत् ॥३९॥ तदीयपरिधौ दोला, तत्पुरो वृषभं शुभम् । तद्भद्रखत्तके चण्डी-मण्डपं नव्यमातनोत् ॥४०॥ स्वकान्ताललितादेव्याः, श्रेयसे तत्र सुन्दरम् । स मन्त्री वटसावित्री-देवतायतनं व्यधात् ॥४१॥ भीमेश्वरशिवागारं, परितोऽसौ वरण्डकम् । पुरतः स प्रतोलीक-मलीकविमुखो वि(व्य)धात् ॥४२॥ कुमासमण्डपिकायाः, समीपेऽसौ प्रपां व्यधात् । तृष्णाच्छिदे सुमनसा-मिन्दुर्मू(मू)तिमिवोज्ज्वलाम् ॥४३॥ निम्बैयकगणेशस्य, बकुलस्वामिभास्वतः । कुमारेश्वररुद्रस्य, मण्डपं स व्यरीरचत् ॥४४॥ चत्वरमुग्धचतुष्पन्थ-गणेश-कपिलेश-वैद्यनाथानाम् । भवनोद्धारं कृत्वा, कृतोऽमुना कृतयुगोद्धारः ॥४५॥ मूर्ति श्रीमल्लदेवस्य, वैद्यनाथान्तिके तथा । स्वस्य मूर्ति(त्ति) व्यधादेष, कुमारेश्वरसन्निधौ ॥४६।। तुङ्गकुट्टिमविश्रान्त-द्विजराजकुटुम्बकाम् । अजिह्मधीरसौ ब्रह्म-पुरीमेकामकारयत् ॥४७॥ ४/७११ तद्वासिवाडकेयो(भ्यो)ऽसौ, वाटकांश्च त्रयोदश । ददौ बभ्राम कीर्तिस्तु, भुवनानि चतुर्दश ॥४८॥ ४/७१२ षट्कर्मनिरतेभ्यस्तद्-द्विजेभ्यः सुकृतात्मना । रामपल्लडिकाग्राम-स्तेनाऽदीयत शासने ॥४९॥ ४/७१३ तथा श्रीमल्लदेवाङ्ग-भुवः पुण्याभिवृद्धये । पूर्णसिंहेश्वरं रुद्र-भवनं स व्यरीरचत् ॥५०॥ अनेकरिपुसङ्ग्राम-हतपादातनामभिः । चतुर्दशैष तत्पाश्र्वे, रुद्रधामान्यकारयत् ॥५१॥