SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५८ अनुसन्धान-७२ तदाये समठामेका-मयं प्राकारि(र)कावृत्ता(ताम् । व्यधात् पलडिके द्वे तु, मुत्कले वासमुत्कले ॥५२॥ तत्र पौरोपकाराय, चिद्रूपः कूपकैतवात् । पातालतः सुधाकुण्ड-मेकमाहूतवानयम् ॥५३॥ ४/७१४ प्रस्थापयितुमात्मीय-कीत्तिं भोगपुरीमिव । खातमातनुते स्वायं(चाऽयं?), तडागे मादनाभि(धे?) ॥५४॥ भट्टादित्यस्य श(शिरसि, स्वर्णश्रीकलितोऽमुना । मुकुटः कुसुमोद्याने-ऽवटश्च निरमीयत ॥५५॥ भट्टादित्ये तथोत्तान-पट्टादिकमनेकधा । अकारयदसौ यद् यद्, तत् तद्वेत्ति स एव सः(हि) ॥५६॥ अकारयदसौ चू(मू)ला-देव देवो द्विभूमिकम् । राजसौधोपमं मन्त्रि-मन्दिरं मन्दुरान्वितम् ॥५७।। विस्तारयत्(न्) भुवि यशो, राजधाम सुधासितम् । तत्रोद्दधार स यशो-राजधाम सुधासितम् ॥५८।। पौत्रप्रतापसिंहस्य, पुण्यायाऽसौ प्रपां व्यधात् । तदाये च ददौ भूमि-हट्टार्दिकमनेकधा ॥५९॥ एकल्लवीराभिधपद्रदेवता-निकेतने चण्डपवंशकेतनम् । सतोरणे तत्र समत्तवारणे, सोपानपीठे रचयाञ्चकार सः ॥६०॥ एकल्लवीराजलपट्टमुत्ता-नपट्टमस्मिन् विशदाश्मवृन्दैः । द्वारान्वितं गर्भगृहं च वर्ध-मानाश्मना सो(ऽसौ) घटयाञ्चकार ॥६१॥ ॥ इति स्तम्भतीर्थाधिकारो नवमः ॥ वस्तुपालो निजाम्बायाः, श्रेयसे धवलक्कके । अम्बावसतिनामानं, प्रासादं वृषभप्रभोः ॥१॥ स्वपूर्वज-स्वसौ(सो)दर्य-सोदरी-स्वजनात्मनाम् । पुण्यार्थं परितः क्लृप्तः(प्ता)-नै(ने)करूपं जिनालयम् ॥२॥ आयार्थं विहितानेक-हट्ट-होरुषा(पा)टिकम् । ध्वजाचलापनीताशा-रजोभारमकारयत् ॥३॥ ([त्रिभिः] विशेषकम्)
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy