________________
जून - २०१७
राणभट्टारकाणां तद्-बहिर्देवकुलोद्धृतिम् । गोग्रहत्यक्तदेहैक-पक्षपाताच्चकार सः ॥४॥ जगतीयुक्तहस्ताभं, तत्पुरस्तोरणं नवम् । स्वमातुः श्रेयसे वापी, शालामापीमपि व्यधात् ।।५।। वीरमस्य च सग्राम-सिंहसङ्ग्रामपातिनः । स्वपत्तेः श्रेयसे तत्र, चक्रेऽसौ वीरमेश्वरम् ॥६॥ श्रेयसे च निजाम्बाया, वाउडाग्राममण्डनम् । भवनं नेमिनाथस्य, रम्याकारमकारयत् ॥७॥ तेजःपालस्तु धवल-क्कक(के) स्फाराम्बकप्रभम् । स्वपाप(स्वापत्य)द्वयपुण्याय, विदधे वसतिद्वयम् ॥८॥ धवलक्कश्रियो दन्ता-निव चैत्यापदेशन(तः) । उद्दधे पतितांस्तेजः-पालः पुण्यरसायनी ॥९॥ भृगुकच्छाभिधं चैत्य-ममुनोद्धृत्य धीमता ।। पुरं(रः)श्री(श्रीः) स्वप्रशंसायां, विहितो/कृताङ्गुलिः ॥१०॥ श्रीमल्लदेवदयिता-लीलूपुण्याय च प्रपाम् । आघाटं वैद्यनाथस्य, समीपे कृतवानयम् ॥११॥ वापीमापीनसुकृतः, प्रपामपि कृपानिधिः ।। वस्तुपालसुतो यै(जै)त्र-सिंहस्तत्र पुरे व्यधात् ॥१२॥ तेजःपालाङ्गजो लूण-सिंहस्तु धवलक्कके । व्यधात् ब्रह्मपुरी-कूप-प्रपा विप्रोल्लसत्घटाः ॥१३॥ असौ तामसिजग्रामे, तृष्णातापरजोहराम् । प्रपां च वाटिकां चाऽर्हद्-वसतिं च विनिर्ममे ॥१४॥ श्रीवस्तुपालस्तु चकार वीर-पुरं श्चा(च) वीरस्य निजेश्वरस्य । नाम्ना सर:-कूप-निपान-वापी-सत्र-प्रपा-ऽऽराममनोभिरामम् ॥१५॥ स्वभर्तुः पितृपुण्याय, लूणगेश्वरमत्र सः । विदधे मातृपुण्याय, तथा मदनशङ्करम् ॥१६॥ श्रेयसे च स्वनाथस्य, तत्र ब्रह्मपुरीमयम् । स्वपितुः श्रेयसेऽकार्षीन्-मनीषी वीरमन्दिरम् ॥१७॥