Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
September-2003
13
लकारवत् प्राञ्जलतोज्झितस्य दण्डादृतेऽन्यत्र न हि प्रसङ्गः । किं नाम नाभूत् पुरतोऽर्हतोऽपि, गोशालकस्याऽनर्वधिर्वधार्थः ॥७६|| एकत्वतत्त्वामृतसिन्धुमग्नाः, सनातने ब्रह्मपथे विलग्नाः । प्रत्येकबुद्धा नमिराजमुख्या बाढं मदीये हृदये ध्वनन्ति ॥७७|| ऐश्वर्यसत्सङ्गमगेहदेह-प्राणप्रियास्नेहधनादि सर्वम् ।। तरङ्गभङ्गप्रतिमं विचिन्त्य स्वालोचितं श्रीकरकण्डुपादैः ॥७८॥
ओष्टाविव द्वौ मिलितौ तपः-शमौ, सतां सदा मुख्यतयाऽपवर्गदौ । परस्परप्रीतिपरौ श्रुतौ नवा-ऽनन्ताच्युतौ किं परलोकसाधकौ ? ॥७९॥ औत्सुका(क्य)मग्र्यं गणयन्ति सात्त्विका, दानोपकारव्रतधर्मनिर्मितौ । अहक्षये हन्त विलम्बितैः पथि, श्रीनेमिनाथः प्रणतो न पाण्डवैः ॥८०॥ अंतर्विशुद्धिर्मनसः प्रसाद-श्चारित्रचर्या च बहिर्विशुद्धिः । द्विधा विशुद्धं सुभगं जयश्री-वृणोत्यहो ! विष्णुमिव द्विधापि ॥८१॥
अः सत्त्वमुक्तं र इतो रजो है- स्तमो घखं मूर्ध्नि परात्मधाम । इत्यक्षयं पञ्चदशप्रभेदा अहँ समाश्रित्य न केऽत्र सिद्धाः ? ॥८२॥ कला: कलाकेलिकलङ्ककन्दली-कुद्दालकल्पाः कलिकालरात्रयः । सतां यशोभद्रमुनीशितुः कथा-प्रथा यशोभद्रशतप्रदायकाः ॥८३॥ कः कलङ्कविकलोऽजनि लोके. कः कलानिधिरभूद् गुणगौरः । कः खलेषु पतित: पतितो नं, क: खिंलं ऋषिपथं श्रयति स्म ॥८४|| कः पुरन्ध्रिभिरलाभि न रन्ध्र, तृष्णया भण न कः परिभूतः । कः फणी वनकुटुम्बकरण्डा-न्तर्गतः फलमवाप दुरन्तम् ॥८५।। कः प्रजेश-शिव-बुद्ध-बिड़ौज:-केशवादिकगणोऽपि न जिग्ये । ऊर्मिभिर्भवसमुद्रभवाभि- स्तं विनाऽवनितले जिनमेकम् ॥८६।। खलैः कषायैर्गलहस्तितात्मा, स शूलपाणिर्नरकान्धकूपे । पतन् महावीरजिनेश्वरेण, संरक्षितोऽकारणवत्सलेन ॥८७॥
३. समस्तं ॥
१. अविनयः ॥ २. चन्द्र ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116