Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
48
अनुसंधान-२५
तत्पट्टे नरसिंहनामनृपतिः २ सिंहस्फ(स्फुरद्विक्रमो दुप्यद्दानववारदारणविधेः सान्वर्थनामस्थितिः । अद्याऽप्यस्य घनप्रतापदहनोत्तापात्सहस्रद्युतिम(म)न्ये व्योमनदीतटीपरिसरे पर्यट्य यात्यम्बुधिम् ॥२१॥ देवकर्ण ३-नरसिंहभूपती ४ राजपालनृप ५-नागपालकौ । पुण्यपाल ७-पृथिवीपती ८ नृपौ रेजतुर्जगति विस्फुरत्कृपौ ।।२२।। तदनु भुवनसिंहो ९ भीमसिंहः १० क्षितीन्द्रस्तदनु स जयसिंहः ११ क्ष्मापतिः स्फारतेजाः । अजयदमररूपां स्वधुनीं य: पवित्रैः निजचरितविलासैर्दाननीरैस्तथाऽन्याम् ॥२३॥ तदनुजस्तदनु क्षितिवासवः समभवत् किल लक्ष्मणसिंहराट् १२ । भुवनशादरिसिंहनृपस्ततः १३ सुकृतसंस्कृतिसत्कृतसत्कृतः ॥२४॥ हम्मीरसिंहः १४ क्षितिपोऽस्य पट्टे श्रीक्षेत्रसिंहो१५ऽस्य तु लक्षसिंहः१६ । तत्पट्टपूर्वाद्रिसहस्ररश्मि-र्जज्ञे नृपो मोकलसिंहनामा १७ ॥२५॥ येन स्वर्णतुलाधिरोहणविधेरन्यः सुवर्णाचलाः] चक्रेऽनन्यसमानदानममलैनव्याः]सरस्वानपि । कीर्तिर्यस्य नवा सरिद्दिविषदां त्रैलोक्यपावित्र्यकृत् नव्यां सृष्टिममार्गणां स विदधज्जज्ञे विधिनू(नूतनः ॥२६॥ यस्य प्रोद्धतगन्धसिन्धुरघटाकुम्भेषु दिग्भित्तिषु व्यावृद्धेषु सरागनागजभराभ्यङ्गा बभुः शाश्वताः । लक्ष्मीणां दशदिग्भुवां परिणये राज्ञेऽस्य किं कौंकमाः (कौङ्कमाः) हस्तास्तेयप्रताप -- तरणेः (?) सार्वत्रिका रश्मयः ॥२७॥ यस्योद्दामतरप्रतापतरणेस्तापादिव व्याकुलाश्छायामण्डलमातपत्रजनितं सर्वे नृपाः शिश्रियुः । इन्द्रप्रस्थपतिर्भिया स्थपतिवत् काष्ठस्थितिदु(दुर्गतस्तस्थौ शेषतयैष मुण्डितशिराः प्रस्थं न चेत् किं भजेत् ? ॥२८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116