Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 56
________________ September-2003 51 यद् यद् राणपुरादितीर्थनियतं राणैः पुराणैः पुरा दत्तं शासनमाप्तधीसखपदैलुप्तं च तल्लुम्पकैः ।। सर्वं धर्मधुरन्धुरोद्ध(धुरन्धरोद्धर)धिया प्रादाद् धराधीश्वरो वंशाकाशविभाविभाकररुचिः श्रीमान् जगत्सिंहजः ॥४५(४४)। आघाटे नरसिंहभूमिपतिना पूर्वं तपस्तप्यतो दत्तं यस्य सदावदातविरुदं श्रीमत्तपेत्याख्यया । सूरिः श्रीजगदादिचन्द्रभगवान् निर्विक्रियः सत्क्रियोद्धारेणोद्धरणं चकार चरणाचारैर्जगत्याश्चिरम् ॥४६(४५)। एतत्पट्टपरम्पराप्रणयिनीभालस्थलालङ्कृतेः सूरिश्रीविजयादिदेवसुगुरोधर्मोपदेशादसौ । राणः श्रीवरकांण-राणकपुरश्रीतीर्थयात्रार्थिनां सङ्घस्याऽनघचेतसा सममुचत् शुल्कानि शुक्लाशयः ॥४७(४६)॥ . पिच्छिल्लोदयसागराख्यसरसोनीरे गभीरे सदा जालक्षेपनिषेधमादिशदसौ कारुण्यमुज्जीवयन् । तेनैतत्सरसोस्तटे पटुतरा डिण्डीरपिण्डच्छलात् कीर्तिःस्फूर्तिमियति सम्प्रति जगत्सिंहाख्यराणप्रभोः ॥४८(४७)। प्रतिशरत् शरदिन्तु(दिन्दु)यशारसाद् व्यरचयज्जिनपूजनमञ्जसा । तपगणाधिपतेरुपदेशत-स्तरणिभासुरराणशिरोमणिः ॥४९(४८)। धर्मस्योन्नतये स धर्मतनयः श्लोकप्रकाशेऽर्जुनो भीमो दुर्धरवैरिवारणघटाकुम्भस्थलस्फेटने । . साम्राज्यं समबूभुजत् स सुचिरं विश्वप्रजारञ्जनो राणश्रेणिनभोमणिः सुकृतकृत् श्रीमान् जगत्सिंहराट् ॥५०(४९)। तत्पट्टभूषामणिरामणीयकः श्रीराजसिंहप्रभुरद्भुतप्रभः २६। जेजीयतेऽयं विजयश्रियान्वितः श्रीराणसूर्यो महसा महीयसा ॥५१(५०)। गन्धसिन्धुर इवोद्धरौजसा म्लेच्छराजविटपिव्रजानहो । मूलतोऽयमुदमूलयत् ततः कूर्चमेषु सुखकन्दमूलिकाः ॥५२(५१)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116