Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 61
________________ 56 अनुसंधान-२५ (१२) आस्थानं फणिनां फणेषु ललितं बभ्रोरुरभ्रस्य च, घ्राणं व्याघ्रविशालवस्त्रविवरे जृम्भासरं बिभ्रति । यत्रानन्दकरं करेणुकरिणां शार्दूलविक्रीडितं तां श्रीधर्मसभां श्रयामि सततं श्रीवासुपूज्यप्रभुः(भोः) ॥१२॥ शार्दूलविक्रीडित ॥ (१३) विमलाधीश्वरनन्दनंदजगदानन्देन्दिरासुन्दरं, त्वयि भूमीवलयं विहारविधिभिः पूतान्तरं कुर्व्वति । सकलोपद्रवडम्बरा अपि खराः प्रापुः प्रणाशं क्षणा दथवा श्वैरविहारिणी व नु हरौ मत्तेभविक्रीडितम् ॥१३||मत्तेभविक्रीडितं ।। (१४) जन्मस्नात्रं पवित्रं सुरगिरिशिखरे यस्य कर्तुं महा , त्रैलोक्याधीशलोके कृतमहसि परालङ्कृतीः सर्वनारीः । दृष्ट्वा नक्षत्रदम्भादपि गगनरमामौक्तिकस्नग्धराभृ तं पञ्चानन्तकेन्द्रं भजत भवभृतो भावतोऽनन्तदेवम् ॥१४॥ स्रग्धरा । (१५) जनको जज्ञेऽवनीशस्तिमिरितजगती पावना लोकभानुः, समधर्माचारचञ्चुर्गुणसुमणिमहास्त्रग्धरासुव्रताम्बा । उपदेशो यस्य पापोपशमशमचणो जन्तुरक्षादिरूपै, रमणीयस्तं नमामि प्रमुदितमनसा सान्वयं धर्मनाथम् ।।१५।।महास्त्रग्धरा ।। क्षमाधरशिरः स्फुरन्महमविश्वसेनाङ्गभूधर्मचक्रोत्तरः, पदाब्जतलसंवरन्नवसुवर्णपद्मागुरुकसन्निभश्रीभरः । प्रभासवरदामयुग् रुचिररत्नवृन्दारकः श्रेणिसेव्यक्रमः, सुखानि मम षोडशो दिशतु शान्तिरर्हन्सदा पंचमश्चक्रभृत् ॥१॥ वृन्दारकः।। (१७) यदपि भवति चक्रिपद्यापि पादाब्जलग्नाचिरं सादरं देहिनां, तदपि चरणमोचनं नैव कुर्बन्ति सन्तो जनास्तेन मन्ये ध्रुवम् । शरदिजन च मेघमाला बलां तां पराकृत्य य: स्वीचकार प्रभुश्चरणमचलकेवलानन्दमन्दायतं कुन्थुनाथं स्तुवे भावतः ॥१७।। मेघमाला ॥ (१६) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116