Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
September-2003
पाणौ यः सततं कृपाणललितैर्कोतिर्गणं भीषयांचक्रेऽद्याऽपि ततः क्षणं न वियति व्यालम्बते यं भिया ॥१२।। गोविन्दो ३ नृपतिस्ततो गजघटागण्डस्थलान्निर्झरद्दानाम्भोभिरिदं भुवस्तलमलङ्कृत्वा सदा पङ्किलम् । म्लेच्छाधीशशिरस्सु भूमिलुठितेषु(पू)निद्रदूर्वाङ्कुरश्रेणी कूर्चकचच्छलेन नितरामुद्भावयामास यः ॥१३॥ महेन्द्र४मुख्यास्तदनु क्षितीन्द्रा जाताः क्रमाद्राजकुलेषु चन्द्राः ।
व्यावर्णितैस्तच्चरितप्रपञ्चै-रालिख्य पूर्येत नभोविभागः ॥१४॥ ते चाऽमीआलूनसिंहश्च५ ततोऽपि सिंहः ६ शक्ते(क्तिः )कुमारो ७ऽप्यथ
शालिवाहः८ । ततो नृपः श्रीनरवाहनाख्यः ९ ततोऽम्बिकादाश १० इति
क्षितीशः ॥१५॥ ब्रह्माऽथ११ नरब्रह्मो १२-त्तमराजो १३ ऽभूत् ततोऽपि कर्णाख्यः १४ । श्रीभद्रसेन १५-गोपति १६ -हंसनृपा १७ योगराजेशः १८ ॥१६।। श्रीवैरसिंह १९-वीरौ २० समराद् २१ रत्नात् २२ ततोऽपि] सिंहाख्यौ। शरपञ्जर २३- नवखण्डौ २४ नवखण्डाखण्डविदिताज्ञौ ॥१७॥ कुरुमेरु २५ -जैत्रसिंहो २६ श्रीकर्णसमस्ततोऽपि कर्णपतिः २७ । इत्याद्या भूमिभुजो भुजौजसा विजितसुरराजाः ॥१८॥ अत्रान्तरे प्रबला राजानोऽन्येऽपि बभूवुस्ते पुस्तकान्तराद् ज्ञेयाः । राहपः १ क्षितिपतिः स महौजाः शत्रुराहुदलने हरिबाहाः]। तत्र दुग्धजलधाविव जातः पारिजातशिखरी ह्यवदातः ॥१९॥ यस्मात् सम्प्रति भूतले विजयिनी राणेति भूमीभूजां ख्याति[ः]स्फातिमुपैति चारुचरितैर्गनेव वारां भरैः । यस्याऽद्यापि यशः सितोत्पलमिदं कर्णावतंसायते सर्वेषां दशदिग्वधूप्रणयिनामामोदमेदस्वलम् ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116