Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान-२५ अतस्मिंस्तदध्यवसायो विपर्ययः । शुक्तिकाशकले रजतज्ञानं, अन्यथाख्यातिः ।
एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नात्वा शशशृङ्गधनुर्धरः ॥१॥
इत्यसत्ख्यातिः । तर्जन्याश्चक्षुर्विक्षेपे 'द्वौ चन्द्रा विति, सुप्तस्य गजादिदर्शनं च । मिथ्याध्यवसाय इति यावत् । न प्रमाणमेतद्, अर्थक्रियाकारित्वाभावात् । 'यदेवाऽर्थक्रियाकारि तदेव परमार्थसद्' इति न्यायपक्षः कक्षीकरणार्हः । तदितरथा प्रेक्षावतां चक्षुःसमक्षं पर्षदन्तः कथं साध्यमानं साधिमानमञ्चेदिति ब्रूमो भ्रूमोटनाश्रिताः । न हि भ्रान्तिज्ञानेऽर्थक्रियाकारित्वम् ।
पुनरुररीकरोति-प्रमाश्रयः प्रमाता १, प्रमाविषयः प्रमेयं २, सम्यगनुभवः प्रमा ३, प्रमाकरणं प्रमाणमिति ४ चतुष्टयम् ।।
ब्रह्माद्वैत-ज्ञानाद्वैत-शून्यवादिनः प्रमाणादिचतुर्विधसत्तावादिनं प्रति विप्रतिपद्यन्ते । तथा हि
अद्वैतं परमं ब्रह्म नेह नानाऽस्ति किञ्चन । आरामं तस्य पश्यन्ति न तत् पश्यति कश्चन ॥१॥ एक एव हि भूतात्मा देहे देहे व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ इत्यादि ॥
चराचरं ब्रह्मविवर्तमेव स्त्यानीभूतं(त)घृते कणा इव । वस्तुप्रपञ्चो मिथ्या, प्रतीयमानत्वात् । वास्तवः परिणामः किं सूक्ष्मरूपः स्थूलरूपो वा ? |
यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा । यद्येतत् स्वर्यमर्थेभ्यो रोचते तत्र के वयम् ? ॥१॥
तदेतत् पृथिव्यप्तेजोवाय्वाकाशादिविश्वं मध्याह्नार्कमरीचिकासु पयःपूर इव प्रतिभाति ।
किमहो सत्तावादिन्(ऽसत्तावादिन् ?)! प्रमाण्या(णा?)द्यन्तरेण कथा प्रवृत्तिहेतुकवाग्यवहारो न स्यात् । तथा च लौकायतिके बादरायणीयाभ्युपगमे कथाप्रवृत्तिदर्शनात् । अथ भवतु नाम । अद्वैतं प्रमाणसिद्धमुताऽप्रमाणसिद्धं वा? । पौरस्त्यः पक्षश्चेद्, दत्तोऽद्वैतवादाय जलाञ्जलिः । एकमद्वैतं, द्वैतीयकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116